SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ कल्प सबो 11३८४॥ 10000000000000000000000000000000000000000000000 सेसं तहेव, नवरं जम्मणं पासाभिलावेणं भाणिअव्वं, जाव तं होउ णं कुमारे पासे नामेणं ॥ १५४॥ (सेसं तहेव, नवरं पासाभिलावणं भाणिअव्वं ) शेषं जन्मोत्सवादि तथैव पूर्ववत्, परं पार्धाभिलापेन भणितव्यं (जाव तं होउ णं कुमारे पासे नामेणं) यावत् तस्मात् भवतु कुमारः पार्श्वः नाम्ना कृत्वा ॥ तत्र प्रभौ गर्भस्थे सति शयनीयस्था माता पार्श्वे सर्पन्तं कृष्णसर्प ददर्श, ततः पाश्चेति नाम कृतं, क्रमेण यौवनं प्राप्तः, | तचैवं-धात्रीभिरिन्द्रादिष्टाभि-लाल्यमानो जगत्पतिः ॥ नवहस्तप्रमाणाङ्गः । क्रमादाप च यौवनम् ॥१॥ ततः कुशस्थलेशः प्रसेनजिन्नृपपुत्रीं प्रभावतीनाम्नी कनी आगृह्य पित्रा परिणायितः, अन्येचुर्गवाक्षस्थः स्वामी एकस्यां दिशि गच्छतः पुष्पादिपूजोपकरणसहितान्नागरांश्च निरीक्ष्य एते क गच्छन्तीति कञ्चित्पप्रच्छ, स आह, प्रभो कुत्रचित्सन्निवेशे वास्तव्यो दरिद्रो मृतमातापितृको ब्राह्मणपुत्रः कृपया लोकैर्जीवितः कमठनामा, स च | एकदा रत्नाभरणभूषितान् नागरान् वीक्ष्य अहो एतत्प्रागजन्मतपसः फलमिति विचिन्त्य पञ्चाग्न्यादिमहाकष्टार्थी तपस्वी जातः, सोऽयं पुर्या बहिरागतोऽस्ति तं पजितुं लोका गच्छन्तीति निशम्य प्रभुरपि सपरिवारस्तं द्रष्टुं ययौ, memogeseoooooooooooooooooooooooooooooooooo ॥३ ४॥ in Education For Private Personel Use Only w.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy