________________
कल्प
सुबा.
||३६३॥
10000000000000000000000000000000000000000000000000000
जयाणं से खुदाए भासरासी महग्गहे दोवाससहस्सठिई जाव जम्मनक्खत्ताओ विइकते भविस्सइ,
तया णं समणाणं निग्गंथाणं निग्गंधीण य उदिए (२) पूआसक्कारे भविस्सइ ॥ १३१॥ | एव शक्रेण स्वामी विज्ञप्तो यत् क्षणं आयुर्वईयत, येन भवत्सु जीवत्सु भवजन्मनक्षत्रं सक्रान्तो भस्मराशिग्रहो भवच्छासनं पीडयितुं न शक्ष्यति, ततः प्रभुणोक्तं, न खलु शक कदाचिदपि इदं भूतपूर्व, प्रक्षीणं आयुर्जिनेन्द्रैरपि वर्डयितुं शक्यते, ततोऽवश्यंभाविनी तीर्थबाधा भविष्यत्येव, किन्तु षडशीतिवर्षायुषि कल्किनि कुनृपतौ त्वया निगृहीते सति वर्षसहस्रद्वये पूर्णे मजन्मनक्षत्राद् भस्मग्रहे व्यतिक्रान्ते च त्वत्स्थापितकल्किपुत्रधर्मदत्तराज्यादारभ्य साधुसाध्वीनां उदितोदितः पूजासत्कारो भविष्यतीति । १३० । सूत्रकारा अपि तदेवाहुः
(जया णं से खुदाए भासरासी महग्गहे ) यदा च स क्षुद्रात्मा भस्मराशिमहाग्रहः (दोवाससहस्सठिई) द्विवर्षसहस्रस्थितिकः ( जाव जम्मनक्खत्ताओ विइकंते) यावत् भगवज्जन्मनक्षत्रात् व्यतिक्रान्तो भविष्यति, उत्तरिष्यतीत्यर्थः (तया णं समणाणं निग्गंथाणं निग्गंथीण य) तदा श्रमणानां निर्ग्रन्थानां निर्ग्रन्थीनां च (उदिए उदिए पूआसक्कारे भविस्सइ ) उदितोदितःपूजासत्कारो भविष्यति ॥ १३१ ॥
00000000000000000000000000000000000000000000000000000
|॥३६३॥
Jain Eduetan
For Private & Personal Use Only
Bw.jainelibrary.org