________________
कल्प
सुबो.
॥२०॥
3000000000000000000000000000000000000000000000000
पञ्चहत्थुत्तरे होत्था, (१२) श्वर्य (१३) योनिषु (१४) ॥१॥ अत्र आद्यान्त्यौ अर्थों वर्जनीयौ ॥ ननु अन्त्योऽर्थस्तु वय॑ एव, परं || अर्कः कथं वय॑ः? सत्यं, उपमानतया अर्को भवति, परं वत्प्रत्ययान्तत्वेन अर्कवान् इत्यर्थो न लगतीति वर्जितः, ' महावीरेत्ति' कर्मवैरिपराभवसमर्थः, श्रीवर्धमानस्वामीत्यर्थः, (पञ्चहत्थुत्तरे होत्थत्ति ) हस्तोत्तरा उत्तराफाल्गुन्यः, गणनया ताभ्यां हस्तस्य उत्तरत्वात् ताः पञ्चसु स्थानेषु यस्य स पञ्चहस्तोत्तरो भगवान् ‘होत्थत्ति ' अभवत् ॥ अथ षटकल्याणकवादी आह-ननु ‘पञ्चहत्थुत्तरे, साइणा परिनिव्वुडे ' इति वचनेन महावीरस्य षट्कल्याणकवं संपन्नमेव, मैवं, एवं उच्यमाने पञ्चउत्तरासाढे, अभीइछट्रे होत्थत्ति' जम्बूद्वीपप्रज्ञप्तिवचनात् श्रीऋषभस्यापि षटकल्याणकानि वक्तव्यानि स्युः, न च तानि त्वयापि तथोच्यन्ते, तस्माद्यथा पञ्चउत्तरासाढे इत्यत्र नक्षत्रसाम्यात् राज्याभिषेको मध्ये गणितः, परं कल्याणकानि तु 'अभीइछट्टे' इत्यनेन सह पश्चैव, तथात्रापि 'पञ्चहत्थुत्तरे' इत्यत्र नक्षत्रसाम्यात् गर्भापहारो मध्ये गणितः, परं कल्याणकानि तु 'साइणा परिनिव्वुडे ' इत्यनेन सह पञ्चैव, तथा श्रीआचाराङ्गटीकाप्रभृतिषु ‘पञ्चहत्युत्तरे' इत्यत्र पञ्च वस्तून्येव व्याख्यातानि, नतु
0000000000000000000000000000000001 00000000000000000000000000000000000०००००
॥२०॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org