SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ कल्प● ॥ ३४९ ॥ Jain Education Inter ब्रह्मेति' इत्यादिपदैर्मोक्षसत्ता प्रतीयते इति तव सन्देहः, परं अविचारितं एतत् यस्मात् 'जरामर्ये वा यदनिहोत्रं ' इत्यत्र वा शब्दोऽप्यर्थे, स च भिन्नक्रमः तथा च जरामर्थं यावत् अग्निहोत्रं अपि कुर्यात्, कोऽर्थः - कचित्स्वर्गाद्यर्थी यावज्जीवं अग्निहोत्रं कुर्यात्, कश्चिन्निर्वाणार्थी अग्निहोत्रं विहाय निर्वाण साधकानुष्ठानमपि कुर्यात्, न तु नियमतोऽग्निहोत्रमेवेत्यपि शब्दार्थः, ततो निर्वाणसत्कानुष्ठानकालोऽप्युक्त एव, तस्मादस्ति निर्वाणं, इत्येकादश: गणधरः ॥ ११ ॥ एवं चतुश्चत्वारिंशच्छतानि द्विजाः प्रव्रजितास्तत्र मुख्यानां एकादशानां त्रिपदीग्रहणपूर्वकं एकादशाङ्गचतुदशपूर्वरचना गणधरपदप्रतिष्ठा च तत्र द्वादशाङ्गीरचनानन्तरं भगवांस्तेषां तदनुज्ञां करोति, शक्रश्च दिव्यं वज्रमयस्थालं दिव्यचूर्णानां भृत्वा त्रिभुवनस्वामिनः सन्निहितो भवति, ततः स्वामी रत्नमयसिंहासनादुत्थाय सम्पूर्णा चूर्णमुष्टिं गृह्णाति, ततो गौतमप्रमुखा एकादशापि गणधरा ईषदवनता अनुक्रमेण तिष्ठन्ति, देवास्तूर्यध्वनिगीतादिनिरोधं विधाय शृण्वन्ति, ततो भगवान् पूर्वं तावत् भणति, गौतमस्य द्रव्यगुणपर्यायैस्तीर्थं अनुजानामीति चूर्णाश्च तन्मस्तके क्षिपति, ततो देवा अपि चूर्णपुष्पगन्धवृष्टिं तदुपरि कुर्वन्ति, गणं च भगवान् सुधर्मस्वामिनं For Private & Personal Use Only सुबो | ॥ ३४९ ॥ jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy