________________
कल्प.
॥३४७||
0000000000000000000000000000000000000000000000000000
अथ देवविषयसन्देह-संयुतं मौर्यपुत्रनामानम् ॥ ऊचे विभुर्यथास्थं । वेदार्थ किं न भावयसि ॥१॥ यतः-- को जानाति मायोपमान गीर्वाणान इन्द्रयमवरुणकुबेरादीनिति ' पदैर्देवनिषेधः प्रतीयते, ' स एव यज्ञायुधी यजमानोऽञ्जसा स्वर्गलोके गच्छतीति' पदैस्तु देवसत्ता प्रतीयते, इति तव सन्देहः, परं अविचार्य एतत् , यत् एते त्वया मया च प्रत्यक्षं एव दृश्यन्ते देवाः, यत्तु वेदे मायोपमानित्युक्तं तदेवानां अपि अनित्यत्वसूचकं, इति सप्तमः गणधरः ॥ ७ ॥
अथ नारकसन्देहात् । सन्दिग्धमकम्पितं विबुधमुख्यम् ।। ऊचे विभुर्यथास्थम् । वेदार्थ किं न भावयसि।।१।। यस्मात् 'नह वै प्रेत्य नरके नारकाः सन्ती' त्यादिपदैर्नारकाऽभावः प्रतीयते, 'नारको वै एष जायते यः शद्रान्नमश्नातीत्यादि' पदैस्तु नारकसत्ता प्रतीयते, इति तव सन्देहः, परं ' नह वै प्रेत्य नरके नारकाः सन्तीति' कोऽर्थः-प्रेत्य परलोके केचिन्नारका मेर्वादिवत् शाश्वता न सन्ति, किन्तु यः कश्चित् पापमाचरति स नारको भवति, अथवा नारका मृत्वानन्तरं नारकतया नोत्पद्यन्ते इति प्रेत्य नारका न सन्तीत्युच्यते, इति अष्टमो गणधरः ॥ ८ ॥
NunutodeoMooHoaHocMM.MoMooooooooo và tìm
Jain Education
na
For Private & Personel Use Only
alww.jainelibrary.org