________________
कल्प०
॥ ३४५ ।।
Jain Education
ततस्तव सन्देहः, यदुत यच्छरीरं स एवात्मा अन्यो वेति परं अयुक्तं एतत् यस्मात् विज्ञानघनेत्यादिभिरपि पदैः अस्मदुक्तार्थप्रकारेण आत्मसत्ता प्रकटैव ॥ इति तृतीयः गणधरः ॥ ३ ॥
पञ्चसु भूतेषु तथा । सन्दिग्धम् व्यक्तसंज्ञकं विबुधम् || ऊचे विभूर्यथास्थं । वेदार्थ किं न भावयसि || १ || येन स्वप्नोपमं वै सकलं, इत्येष ब्रह्मविधिरञ्जसा विज्ञेय इति ' अस्यार्थः- वै निश्चितं सकलं एतत् पृथिव्यादिकं | स्वप्नोपमं असत्, अनेन वेदवचसा तावद्भूतानां अभावः प्रतीयते । पृथ्वी देवता, आपो देवता, इत्यादिभिस्तु भूतसत्ता प्रतीयते इति सन्देहः, परं अविचारितं एतत्, यस्मात् स्वप्नोपमं वै सकलं, इत्यादीनि पदानि अध्यात्मचिन्तायां | कनककामिन्यादिसंयोगस्य अनित्यत्वसूचकानि, न तु भूतनिषेधपराणीति चतुर्थः गणधरः ॥ ४ ॥
यो यादृशः स तादृश । इति सन्दिग्धं सुधर्मनामानम् || ऊचे विभुर्यथास्थं । वेदार्थ किं न भावयसि ||१|| यतः - ' पुरुषो वै पुरुषत्वमश्नुते, पशव: पशुत्वं इत्यादीनि भवान्तरसादृश्यप्रतिपादकानि तथा ' शृगालो वै एष जायते यः सपुरीषो दह्यते, इत्यादीनि भवान्तरवैसदृश्यप्रतिपादकानि वेदपदानि दृश्यन्ते, इति तब सन्देहः, परं नायं सुन्दरो विचारो, यस्मात् ' पुरुषो वै पुरुषत्वमनुते ' इत्यादीनि यानि पदानि
For Private & Personal Use Only
सुबो•
1138411
www.jainelibrary.org