SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो. ॥३४॥ 00000000000000000000000000000000000000000000000 सर्वभूतमयो विष्णु-स्तस्माद्विष्णुमयं जगत् ॥ १॥ अनेन वाक्येन विष्णोर्महिमा प्रतीयते, न तु अन्यवस्तूनां अभावः, किञ्च अमूर्त्तस्यात्मनो मूर्तेन कर्मणा कथं अनुग्रहोपघातो, तदपि अयुक्तं, यतः अमूर्तस्यापि ज्ञानस्य मद्यादिना उपघातो, ब्राह्मयाद्यौषधेन च अनुग्रहो दृष्ट एव, किञ्च कर्म विना एकः सुखी अन्यो दुःखी, एकः प्रभुरन्यः किंडर इत्यादि प्रत्यक्षं जगद्वैचित्र्यं कथं नाम सम्भवतीति श्रुत्वा गतसंशयः प्रवजितः, इति द्वितीयः गणधरः ॥ २ ॥ __ अथ वायुभूतिरपि तौ प्रवजितौ श्रुत्वा यस्य इन्द्रभूत्यग्निभूती शिष्यौ जातो, स ममापि पूज्य एव, तद्गच्छाम्यहमपि संशयं पृच्छामि इति सोऽप्यागतः, एवं सर्वेऽप्यागताः, भगवतापि सर्वेऽपि प्रतिबोधिताः, तत्क्रमश्वायंतजीवतच्छरीर-सन्दिग्धं वायुभूतिनामानम् ।। ऊचे विभुर्यथास्थं । वेदार्थ किं न भावयसि ॥१॥ यतः-' विज्ञानघन एवैतेभ्धो भूतेभ्य' इत्यादिवेदपदैस्तु भूतेभ्यो जीवः पृथग् नास्ति इति प्रतीयते, तथा · सत्येन लभ्यस्तपसा | ह्येष ब्रह्मचर्येण नित्यं ज्योतिर्मयो हि शुद्धो यं पश्यन्ति धीरा यतयः संयतात्मान इत्यादि' अस्यार्थः-एष ज्योति| मयः शुद्ध आत्मा सत्येन तपसा ब्रह्मचर्येण लभ्यः ज्ञेय इत्यर्थः, एभिस्तु वेदपदैर्भूतेभ्यः पृथक् आत्मा प्रतीयते, 000000000000000000000000000000000000000000000000000 ॥३ ४ा . Jain Education in For Private & Personel Use Only ww.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy