________________
कल्प०
३४३॥
00000000000000000000000000000000000000000000000000
| ज्ञाते । चिन्तयामास चेतसि ।। गत्वा जित्वा च तं धर्त । वालयामि सहोदरम् ॥ ३ ॥ सोऽप्येवमागतः शीघ्र ।
प्रभुणा भाषितस्तथा । सन्देहं तरय चित्तस्थं । व्यक्तीकृत्याऽवदहिभुः ॥ ४ ॥ हे गौतमाग्निभूते कः । सन्देह| स्तव कर्मणः ॥ कथं वा वेदतत्त्वार्थ । विभावयसि न स्फुटम् ॥ ५ ॥ स चाय--पुरुष एवेदं मिं सर्व यद्भूतं यच्च भाव्यं, इत्यादि, तत्र — निं' इति वाक्यालङ्कारे, यद् भूतं अतीतकाले, यच्च भाव्यं भाविकाले, तत् सर्व इदं | पुरुष एव आत्मैव, एवकारः कर्मेश्वरादिनिषेधार्थः, अनेन वचनेन यन्नरामरतिर्यपर्वतपृथ्व्यादिकं यद्वस्तु दृश्यते, तत्सर्व आत्मैव, ततः कर्मनिषेधः स्फुट एव, किं च अमूर्तस्य आत्मनो मूर्तेन कर्मणा अनुग्रह उपघातश्च कथं
भवति, यथा आकाशस्य चन्दनादिना मण्डनं, खड़ादिना खण्डनं च न सम्भवति, तस्मात् कर्म नास्ति इति | तव चेतसि वतर्ते, परं हे अग्निभूते नायमर्थः समर्थः, यत् इमानि पदानि पुरुषस्तुतिपराणि, यथा त्रिविधानि
वेदपदानि, कानिचिहिधिप्रतिपादकानि यथा स्वर्गकामोऽग्निहोत्रं जयादित्यादीनि, कानिचित् अनुवादपराणि यथा द्वादश मासाः संवत्सर इत्यादीनि, कानिचित् स्तुतिपराणि यथा इदं पुरुष एवेत्यादीनि, ततोऽनेन | पुरुषस्य महिमा प्रतीयते, न तु कर्माद्यभावः, यथा-जले विष्णुः स्थले विष्णुः । विष्णुः पर्वतमस्तके ।
00000000000000000000000000000000000000000000
॥३४३॥
0000
JainEducation intra
For Private Personal Use Only