________________
o
कल्प
..0000000000 00000000000000000000000000000000000000000
हि जीवो घटादिभ्य एव हेतुभूतेभ्यो भवति, घटादिज्ञानपरिणामस्य घटादिवस्तुसापेक्षत्वात् , एवं च एतेभ्यो भूतेभ्यो घटादिवस्तुभ्यस्तत्तदुपयोगतया जीवः समुत्थाय समुत्पद्य तान्येव अनु विनश्यति, कोऽर्थस्तस्मिन् घटादौ वस्तुनि नष्टे व्यवहिते वा जीवोऽपि तदुपयोगरूपतया नश्यति, अन्योपयोगरूपतया उत्पद्यते, सामान्यरूपतया वा अवतिष्ठते, ततश्च न प्रेत्यसञ्जास्ति, कोऽर्थः-न प्राक्तनी घटाद्यपयोगरूपा सञ्ज्ञा अवतिष्ठते, वर्त्तमानोपयोगेन तस्या नाशितत्वादिति, परं च-सवै अयं आत्मा ज्ञानमय इत्यादि, तथा ददद, कोऽर्थः-दमो दानं दया, इति दकारत्रयं यो वेत्ति स जीवः, किश्च विद्यमानभोक्तृकं इदं शरीरं भोग्यत्वात् ओदनादिवत्, इत्याद्यनुमानेनापि, तथा, क्षीरे घृतं तिले तैलं । काठेऽग्निः सौरभं कुसुमे ॥ चन्द्रकान्ते सुधा यहत् । तथात्माङ्गगतः पृथक् ॥१॥ एवं च प्रभुवचनैः छिन्नसंदेहः श्रीइन्द्रभूतिः पञ्चशतपरिवारः प्रवजितः, तत्क्षणाच्च उपन्ने इ वा (१) विगमे इ वा (२) धुवे इ वा (३) इति प्रभुवदनात्रिपदीं प्राप्य द्वादशाङ्गी रचितवान , इति प्रथमगणधरः ॥ १ ॥
तं च प्रवजितं श्रुत्वा । दध्यौ तदबान्धवोऽपरः ॥ अपि जातु वेददि--हिमानी प्रज्वलेदपि ॥ १॥ वह्निः ||४|॥३४२॥ शीतः स्थिरो वायुः । सम्भवेन्न तु बान्धवः ॥ हारयेदिति पपृच्छ । लोकानऽश्रद्दधद् भृशम् ॥२॥ ततश्च निश्चये
000000000000000000000000000000000000000000000000000
२in
For Private 8 Personal Use Only
Join Education
Hw.jainelibrary.org