SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो० ॥३४१॥ 00000000000000000000000000000000000000000000000000000 वानसि ॥ इत्युक्तेऽचिन्तयद्देत्ति । नामापि किमसौ मम ॥२३॥ जगत्रितयविख्यातं । को वा नाम न बत्ति माम् ॥ जनस्याबालगोपालं । प्रच्छन्नः किं दिवाकरः ॥२४॥ प्रकाशयति गप्तं चेत । सन्देहं मे मनःस्थितम । तदा जानामि सर्वज्ञं । अन्यथा तु न किञ्चन ॥ २५ ॥ चिन्तयन्तमिति प्रोचे । प्रभुः को जीवसंशयः ॥ विभा-1 | वयसि नो वेद-पदार्थ शृणु तान्यथ ॥ २६ ॥ समुद्रो मथ्यमानः किं । गङ्गा पूरोऽथवा किमु ॥ आदिब्रह्मध्वनिः किं वा । वीरवेदध्वनिर्बभौ ।। २७ ॥ वेदपदानि च-विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानविनश्यति, न प्रेत्यसञ्जास्तीति. त्वं तावत् एतेषां पदानां अर्थ एवं करोषि, यत् विज्ञानघनो गमनागमनादिचेष्टावान् आत्मा एतेभ्यो भूतेभ्यः पृथिव्यप्तेजोवाय्वाकाशेभ्यः समुत्थाय प्रकटीभूय मद्याङ्गेषु मदशक्तिरिव, ततस्तानि भूतान्येव अनु विनश्यति, तत्रैव विलयं याति, जलेषु बुद्बुदा इव, ततो भूतातिरिक्तस्य आत्मनोऽभावात् न प्रेत्यसञ्ज्ञास्ति मृत्वा पुनर्जन्म नास्तीति । परं अयुक्तोऽयमर्थः, शृणु तावदेतेषां अर्थ, विज्ञानघन इति कोऽर्थः, विज्ञानघनो, ज्ञानदर्शनोपयोगात्मकं विज्ञानं, तन्मयत्वादात्मापि विज्ञानघनः, प्रतिप्रदेशं अनन्तज्ञानपर्यायात्मकत्वात् , स च विज्ञानधन उपयोगात्मक आत्मा, कथञ्चिद्भुतेभ्यस्तद्विकारेभ्यो वा घटादिभ्यः समुत्तिष्ठते उत्पद्यत इत्यर्थः, घटादिज्ञानपरिणतो 0000000000000000000000000000000000000000 Jain Education Intell For Private & Personel Use Only ww.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy