SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ कल्प ० 119411 Jain Education In नागराजः खहारं तत्कण्ठे निक्षिप्य स्वस्थानं जगाम । ततः स्वजनैः श्रीकान्तस्य मृतकार्ये विधाय तस्य नागकेतुरिति नाम कृतं क्रमाच्च स बाल्यादपि जितेन्द्रियः परमश्राव को बभूव, एकदा च विजयसेनराजेन कश्चिद् अचौरोऽपि चौरकलङ्केन हतो व्यन्तरो जातः, समग्रनगरविघाताय शिलां रचितवान्, राजानं च पादप्रहारेण रुधिरं वमन्तं सिंहासनाद भूमौ पातयामास तदा स नागकेतुः कथं इमं सङ्घप्रासादविध्वंसं जीवन् पश्यामीतिबुद्ध्या प्रासादशिखरमारुह्य शिलां पाणिना दधे, ततः स व्यन्तरोऽपि तत्तपः शक्ति असहमान: शिलां संहृत्य नागकेतुं नतवान्, तद्वचनेन भूपालं अपि निरुपद्रवं कृतवान् । अन्यदा च नागकेतुर्जिनेन्द्रपूजां कुर्वन् पुष्पमध्यस्थितसर्पेण दष्टोऽपि तथैवाऽव्यो भावनारूढः केवलज्ञानं आसादितवान्, ततः शासनदेवतार्पितमुनिवेषश्चिरं विहरतिस्म, एवं नागकेतुकथां श्रुत्वा अन्यैरपि अष्टमतपसि यतनीयं । इति नागकेतुकथा ॥ अथात्र श्री कल्पसूत्रे त्रीणि चान्यानि यथा - 'पुरिमचरिमाण कप्पो मंगलं वज्रमाणतित्थम्मि ॥ इह परिकहिया जिणगण - ह्राइ थेरावली चरितं || १ ||' व्याख्या - 'पुरिमचरिमाणत्ति, ' ऋषभृवीरजिनयोः 'कप्पत्ति' अयं कल्पः आचारः, यत् वृष्टिभतु मा बा, परं अवश्यं पर्युषणा कर्तव्या, उपलक्षणत्वात् कल्पसूत्रं वाचनीयं च, For Private & Personal Use Only सुबो ॥१८॥ w.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy