SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ कल्प० ॥१७॥ Jain Education Int तं बालकं अमृतच्छटया आश्वास्य विप्ररूपं कृत्वा धनं गृह्णतस्तान् निवारयामास तत् श्रुत्वा राजापि त्वरितं तत्रागत्योवाच भो भूदेव ? परम्परागतं इदं अस्माकं अपुत्रधनग्रहणं कथं निवारयसि, धरणोऽवादीत्, राजन् ? जीवत्यस्य पुत्रः, कथं कुत्रास्तीति राजादिभिरुक्तः भूमेस्तं जीवन्तं बालकं साक्षात्कृत्य निधानमिव दर्शयामास, ततः सर्वैरपि सविस्मयैः स्वामिन् कस्त्वं कोऽयमिति पृष्टे सोऽवदत्, अहं धरणेन्द्रो नागराजः कृताष्टमतपसोऽस्य महात्मनः साहाय्यार्थं आगतोऽस्मि, राजादिभिरुक्तं स्वामिन् ? जातमात्रेण अनेन अष्टमतपः कथं कृतं, धरणेन्द्र उवाच, राजन् अयं हि पूर्वभवे कश्चिणिक्पुत्रो बाल्येऽपि मृतमातृक आसीत्, स च अपरमात्रात्यन्तं पीड्यमानो मित्राय स्वदुःखं कथयामास, सोऽपि त्वया पूर्वजन्मनि तपः न कृतं तेनैवं पराभवं लभसे इत्युपदिष्टवान्, ततोऽसौ यथाशक्ति तपोनिरतः आगामिन्यां पर्युषणायां अवश्यं अष्टमं करिष्यामीति मनसि निश्चित्य तृणकुटीरे सुष्वाप, तदा च लब्धावसरया विमात्रा आसन्नप्रदीपनकादग्निकणस्तत्र निक्षिप्तस्तेन च कुटीर के ज्वलिते सोऽपि मृतः, अष्टमध्यानाच्च अयं श्रीकान्तमहेभ्यनन्दनो जातः, ततोऽनेन पूर्वभवचिन्तितं अष्टमतपः साम्प्रतं कृतं तदसौ | महापुरुषो लघुकर्माऽऽस्मिन् भवे मुक्तिगामी यत्नात् पालनीयो, भवतां अपि महते उपकाराय भविष्यतीति उक्त्वा For Private & Personal Use Only सुबो• 119011 www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy