________________
कल्प.
॥१६॥
00000000000000000000000000000000000000000000000000001
श्रीकल्पसूत्रं वाचयितुमारब्धं, ततः प्रभृति चतुर्विधोऽपि सङ्घः श्रवणेऽधिकारी, वाचने तु विहितयोगानुष्ठानः साधुरेव ॥| | || सुबो. अथ अस्मिन् वार्षिकपर्वणि कल्पश्रवणवत् इमान्यपि पञ्च कार्याणि अवश्यं कार्याणि, तद्यथा-चैत्यपरिपाटी (१) समस्तसाधुवन्दनम् (२) सांवत्सरिकप्रतिक्रमणम् (३) मिथः साधर्मिकक्षामणम् (१) अष्टमं तपश्च (५) एष अपि कल्पश्रवणवद् वाञ्छितदायकत्वं अवश्यं कर्तव्यत्वं जिनानज्ञातत्वं च ज्ञेयं, तत्र अष्टमं तप उपवासत्रयात्मकं महाफलकारणं, रत्नत्रयवदान्यं, शल्यत्रयोन्मूलनं, जन्मत्रयपावनं, कायवाङ्मानसदोषशोषकं, विश्वत्रयाग्रपदप्रापकं, निःश्रेयसपदाभिलाषुकैरवश्यं कर्त्तव्यं, नागकेतुवत् , तथाहि--चन्द्रकान्ता नगरी, तत्र विजयसेनो नाम राजा, | श्रीकान्ताख्यश्च व्यवहारी, तस्य श्रीसखी भार्या, तया च बहुप्रार्थित एकः सुतः प्रसूतः, स च बालक आसन्ने पर्युषणापर्वणि कुटुम्बकृतां अष्टमवार्ता आकर्ण्य जातजातिस्मृतिः स्तन्यपोऽपि अष्टमं कृतवान्, तहतं स्तन्यपानमकुर्वाणं पर्युषितमालतीकुसुममिव म्लानं आलोक्य मातापितरौ अनेकान् उपायांश्चक्रतुः, क्रमाच्च मूर्छा प्राप्तं तं बालं मृतं ज्ञात्वा स्वजना भूमौ निक्षिपन्ति, ततश्च विजयसेनो राजा तं पुत्रं तदुःखेन तत्पितरं च मृतं विज्ञाय तद्धन-13॥१६॥ ग्रहणाय सुभटान् प्रेषयामास, इतश्च अष्टमप्रभावात् प्रकम्पितासनो धरणेन्द्रः सकलं तत्स्वरूपं विज्ञाय भूमिस्थं |
000000000000000000000000000000001
0000000000000000
For Private Personal Use Only
Mr.jainelibrary.org
Jan Education inte