________________
कल्प०
॥३३५॥
Jain Education Inter
( १ ) मेतार्य: ( १० ) प्रभास ( ११ ) श्रेति चत्वारो द्विजाः प्रत्येकं त्रिशतपरिवाराः क्रमेण नैरयिक ( ८ ) पुण्य (९) परलोक (१० ) मोक्ष ( ११ ) सन्देहभाजस्तत्रागताः सन्ति, ते चैकादशापि द्विजा एकैक्सन्देहसद्भावेऽपि सर्वज्ञत्वाऽभिमानक्षतिभयात् परस्परं अपृच्छन्ति एवं एते, तत्परिवारभृताश्चतुश्चत्वारिंशच्छतानि द्विजा अन्येऽपि उपाध्याय, शङ्कर, ईश्वर, शिवजी, जानी, गङ्गाधर, महीधर, भूधर, लक्ष्मीधर पिण्ड्या, विष्णु, मुकुन्द, गोविन्द, पुरुषोत्तम, नारायण, दुवे, श्रीपति, उमापति, गणपति, जयदेव, व्यास, महादेव, शिवदेव, मूलदेव, | सुखदेव, गङ्गापति, गौरीपति, त्रिवाडी, श्रीकण्ठ, नीलकण्ठ, हरिहर, रामजी, बालकृष्ण, यदुराम, राम, रामाचार्य, राउल, मधुसूदन, नरसिंह, कमलाकर, सोमेश्वर, हरिशङ्कर, त्रिकम, जोसी, पूनो रामजी, शिवराम, देवराम, गोविन्दराम, रघुराम, उदिराम इत्यादयो मिलिताः सन्ति || अत्रान्तरे च भगवन्नमस्यार्थ आगच्छतः सुराऽसुरानन् विलोक्य ते चिन्तयन्ति, अहो ! यज्ञस्य महिमा ! यदेते सुराः साक्षात्समागताः, अथ तान् यज्ञमण्डपं विहाय प्रभुपार्श्वे च गच्छतो विज्ञान द्विजा विषेदुस्ततोऽमी सर्वज्ञं वन्दितुं यान्तीति जनश्रुत्या श्रुत्वा इन्द्रभूतिः सामश्चिन्तयामासिवान् अहो ! मयि सर्वज्ञे सत्यपि अपरोऽपि सर्वज्ञं स्वं ख्यापयति, दुःश्रवं एतत्कर्णकटु कथं नाम
For Private & Personal Use Only
सुवा •
।। ३३५ ।।
jainelibrary.org