SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ कल्प० 000000000000000000000000000000000000000000000000 राहार एव षण्मास्या स गतो भविष्यतीति विचिन्त्य यावद् व्रजग्रामगोकुले गोचर्यायां प्रविष्टस्तावत्तत्रापि तत्कृतां || | | सुबो. अनेषणां विज्ञाय तथैवागत्य बहिः प्रतिमया तस्थौ, ततः स सुराधमः कथमपि अस्खलितं विशद्धपरिणामं जगदीश्वरं अवधिना विज्ञाय विषण्णमानसोऽभिवन्द्य सौधर्म प्रति चचाल, स्वामी च तत्रैव गोकुले हिण्डन् वत्सपाल्या स्थविरया परमान्नेन प्रतिलाभितो वसुधारा च निपतिता, इतश्च तावन्तं कालं यावत् सर्वे सौधर्मवासिनो देवा देव्यश्च निरानन्दा निरुत्साहास्तरथः, शक्रोऽपि वर्जितगीतनाट्य एतावतां उपसर्गाणां हेतर्मत्कृता प्रशंसैवेति महादुःखाक्रान्तचित्तः करकमलविन्यस्तमुखो दीनदृष्टिविमनस्कस्तस्थौ, ततश्च भ्रष्टप्रतिज्ञं श्याममखं आगच्छन्तं तं सुराधमं निरीक्ष्य शक्रः पराङ्मुखीभूय सुरानित्यूचे, हंहो सुरा असौ कर्मचण्डालः पापात्मा समागच्छति, अस्य दर्शनं अपि महापापाय भवति, अनेनास्माकं बहु अपराडं, यदनेनास्मदीयः स्वामी कदर्थितः, अयं पापात्मा यथा अस्मत्तो न भीतस्तथा पातकादपि न भीतस्तदपवित्रोऽसौ दुरात्मा शीवं खर्गानिर्वास्यतां, इत्यादिष्टैः शक्रसुभटैर्निर्दयं यष्टिमुष्टयादिभिस्ताड्यमानः साङ्गुलिमोटनं कृतान सुराणां आक्रोशान सहमानचौर इव साशङ्क ॥३१६॥ इतस्ततो विलोकयन् निर्वाणाङ्गार इव निस्तेजा निषिडाखिलपरिवार एकाकी अलर्कश्वेव देवलोकान्निष्कासितो 0000000000000000000000000000000000000000000000000000 Jain Education Intern For Private & Personel Use Only Hw.jainelibrary.org DO
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy