________________
कल्प.
। सुबो
॥३१॥
100000000000000000000000000000000000000000000000०.
निष्पन्न इति प्रभुः प्रत्याह, गोशालोऽश्रद्दधत्तां तिलशम्बां विदार्य सप्त तिलान् दृष्टा, त एव प्राणिनस्तस्मिन्नेव | | शरीरे पनः परावृत्त्य समत्पद्यन्ते इति मतिं नियतिं च गाढीकृतवान् , ततः प्रभोः पृथग्भूय श्रावस्त्यां कुम्भकारशालायां स्थितो भगवदुक्तोपायेन तेजोलेश्यां साधयित्वा त्यक्तत्रतश्रीपार्श्वनाथशिष्यात् अष्टाङ्गनिमित्तं चाधीत्याहारेण सर्वज्ञोऽहं इति ख्यापयतिस्म, यच्चोक्तं किरणावलीकारेण 'गोशालाय तेजोलेश्योपायः सिद्धार्थेनोक्त इति,' तच्चिन्त्यं आवश्यकवृत्तिवीरचरित्रादी भगवतोक्त इत्यभिधानात्। ततः स्वामी श्रावस्त्यां दशमं वर्षारानं विचित्रं तपश्चाऽकरोदित्याद्यनुक्रमेण स्वामी बहुम्लेच्छां दृढभूमिं गतस्तस्यां बहिः पेढालग्रामात् पोलासचैत्येऽष्टमभक्तेन एकरात्रिकी प्रतिमा तस्थिवान् , इतश्च सभागतः शक्रस्त्रैलोक्यजना अपि वीरचेतश्चालयितुं असमर्था इति प्रभोः प्रशंसा कृतवान् , तत् श्रुत्वा च अमर्षेण सामानिकः सङ्गमाख्यः सरः क्षणात्तं चालयामीति शक्रसमक्षं कृतप्रतिज्ञः शीघ्रं प्रभुसमीपं आगत्य प्रथमं धूलिवृष्टिं चकार, यया पूर्णाक्षिकरणादिविवरः स्वामी निरुच्छासोऽभूत् ॥ १ ॥ ततो वज्रतुण्डपिपीलिकाभिश्चालनीतुल्यश्चक्रे, ताश्चैकतः प्रविशन्ति,अन्यतो निर्यान्ति ( २ ) तथा वज्रतुण्डा उदंशाः | | (8) तीक्ष्णतुण्डा घृतेलिकाः (४) वृश्चिकाः (५) नकुलाः (६) सर्पाः (७) मूषकाच (८)
0000000000000000000000000000000000000000000000000
॥३
in Educatan Intematon
For Private & Personal Use Only
www.jainelibrary.org