________________
कल्प.
॥३१३॥
100000000000000000000000000000000000000000000000000
जाल्यां प्रक्षिप्तः, स्वामिच्छत्रधरत्वात् मुक्तच, ततः स्वामी गोभूमिं ययौ, ततो राजगृहेऽष्टमं वर्षारानं अकरोत् , चतुमासिकतपश्च, अपरमपि मासद्वयं तत्रैव विहृतवान् , वसत्यभावाच्च नवमं वर्षारात्रं अनियतं अकार्षीत् , ततः कूर्मग्रामं गच्छन मार्गे तिलस्तम्बं दृष्टा अयं निष्पत्स्यते न वेति गोशाल:प्रपृच्छ, ततः प्रभुणा सप्तापि तिलपुष्पजीवा मृत्वा एकस्यां शम्बायां तिला भविष्यन्तीति प्रोक्ते तद्वचनं अन्यथा कर्तुं तं स्तम्बं उत्पाट्य एकान्ते मुमोच, ततः सन्निहितव्यन्तरैर्मा प्रभुवचोऽन्यथा भवत्विति वृष्टिवक्रे, गोखुरेण च आर्द्रभूमौ स तिलस्तम्बः स्थिरीबभूव, ततः प्रभुः कूर्मग्रामे गतस्तत्र च वैश्यायनतापसस्य आतापनाग्रहणाय मुत्कलमुक्तजटामध्ये यूकाबाहुल्यदर्शनात् गोशालो यूकाशय्यातर इति तं वारं वारं हसितवान, ततस्तेन क्रुडेन तेजोलेश्या मुक्ता, तां च कृपारसाम्भोधिभगवान् शीतलेश्यया निवार्य गोशालं रक्षितवान् ॥ ततो मङ्खलिसूनुस्तस्य तापसस्य तेजोलेश्यां विलोक्य कथमियमुत्पद्यते इति भगवन्तं पृष्टवान् , भगवानपि अवश्यंभावितया भुजङ्गस्य पयःपानमिव तादृगनर्थकारणं अपि तेजोलेश्याविधि शिक्षितवान् , यथा आतापनापरस्य सदा षष्ठतपसः सनखकुल्माषपिण्डिकया एकेन च उष्णोदकचुलुकेन पारणां कुर्वतः षण्मास्यन्ते तेजोलेश्योत्पद्यते इति, ततः सिद्धार्थपुरे व्रजन् गोशालेन स तिलस्तम्बो न निष्पन्न इत्युक्ते, स एष तिलस्तम्बो
Peeeeeeeemeteocare geomeone cao
||३१३॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org