________________
कल्प
|| सुबो०
॥३१२॥
1000000000000000000000000000000000000000000000000०.
| घनेन हन्तुमुद्यतोऽवधिना ज्ञात्वा आगत्य शक्रेण तेनैव घनेन हतः ॥ ततः स्वामी ग्रामाकसन्निवेशं गतस्तत्रोद्याने बिभेलकयक्षो महिमानं चके, ततः शालिशीर्षे ग्रामे उद्याने प्रतिमास्थस्य स्वामिनो माघमासे त्रिपृष्ठभवापमानिता अन्तःपुरी मृत्वा व्यन्तरीभता, तापसीरूपं कृत्वा जलभृतजटाभिर्दस्सहं शीतोपसर्ग चक्रे, प्रभुं च निश्चलं विलोक्य उपशान्ता स्तुतिं चकार, प्रभाश्च तं सहमानस्य षष्ठेन तपसा विशुध्ध्यमानस्य लोकावधिरुत्पन्नः, ततः स्वामी भद्रिकायां षष्ठवर्षासु चतुर्मासतपो विविधानभिग्रहांश्च अकरोत्, तत्र पुनः षण्मासान्ते गोशालो मिलितः, ततः खामी बहिः पारयित्वा ऋतुबद्धे मगधावनौ निरुपसर्गो विहृतवान् , तत आलम्भिकायां सप्तमवर्षासु चतुर्मासक्षपणेन स्थित्वा बहिः पारयित्वा च कुण्डगसन्निवेशे वासुदेवचैत्ये स्वामी प्रतिमया स्थितः, गोशालोऽपि वासुदेवप्रतिमायाः पराङ्मुखोऽधिष्ठानं मुखे कृत्वा तस्थौ, कुट्टितश्च लोकैः,ततो मईनग्रामे बलदेवचैत्ये स्वामी प्रतिमया स्थितः, गोशालो बलदेवमुखे मेहनं कृत्वा तस्थौ, ततो लोकैः कुट्टितश्च, द्वयोरपि स्थानयोर्मुनिरिति कृत्वा मुक्तः, ततः क्रमात्प्रभुः उन्नागसंनिवेशे गतः, तत्र मार्गे संमुखागच्छद्दन्तुरवधूवरौ मङ्खलिना हसितौ, यथा-तत्तिल्लो विहि राया ! जणे वि दूरे वि जो जहिं वसइ ॥ जं जस्स होइ जुग्गं । तं तस्स बिइज्जयं देइ ॥ १ ॥ ततस्तैः कुट्टयित्वा वंश
000000000000000000000000000000000000000000000000000
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org