________________
कल्प ०
॥३१०॥
भोक्ष्यसे, ततः सोऽपि तन्निवारणाय वणिग्गेहेषु भिक्षायै बभ्राम तत्र च पितृदत्तो वणिक् तस्य भार्या च मृतापत्यप्रसूरस्ति, तस्याश्च नैमित्तिक शिवदत्तेनोक्तोऽपत्यजीवनोपायो यत् तस्य मृतबालकस्य मांसं पायसेन विमिश्रं कस्यचिद्भिक्षोर्देयं, तया च तेनैव विधिना गोशालाय दत्तं गृहज्वालनभयाच्च गृहद्वारं परावर्तितं, गोशालो|ऽपि अज्ञातस्वरूपस्तद्भक्षयित्वा भगवत्समीपमागतः, सिद्धार्थेन यथास्थिते उक्त वमनेन कृतनिर्णयश्च तद्गृहज्वालनाय आगतस्तद्गृहं अलब्ध्वा तं पाटकं एव भगवन्नाम्ना ज्वालितवान्, ततः स्वामी बहिर्दरिद्रसन्निवेशात् हरिद्रवृक्षस्य अधः प्रतिमया तस्थौ, पथिकप्रज्वालिताग्निना अनपसरणात् प्रभोः पादौ दग्धौ, गोशालो नष्टः, ततः स्वामी मंगलाग्रामे वासुदेवगृहे प्रतिमया स्थितस्तत्र गोशालो डिम्भभापनाय अक्षिविक्रियां कुर्वन् तत्पित्रादिभिः | कुट्टितो मुनिपिशाच इत्युपेक्षितः । ततः स्वामी आवर्त्तग्रामे बलदेवगृहे प्रतिमया स्थितः, तत्र गोशालेन बालभापनाय मुखत्रासो विहितस्ततस्तत्पित्रादयो ग्रथिलोऽयं किमनेन हतेन, अस्य गुरुरेव हन्यते इति भगवन्तं हन्तुं उद्यतास्तांच बलदेवमूर्त्तिरेव बाहुना लाङ्गूलं उत्पाट्य न्यवारयत्, ततः सर्वेऽपि स्वामिनं नतवन्तः, ततः प्रभुः ॥ ३१० ॥ चोराकसन्निवेशं जगाम, तत्र मण्डपे भोज्यं पच्यमानं दृष्ट्वा गोशालः पुनः पुनः न्यग्भूय वेलां विलोकयतिस्म,
Jain Education International
सुव
For Private & Personal Use Only
www.jainelibrary.org