SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ कल्प 000000000000000 00000000000000000000000००० | च, गोशालश्च तस्यां तन्तुबायशालायां स्वामिनं अनिरीक्ष्य समग्रे राजगृहनगरे गवेषयन् स्वोपकरणं द्विजेभ्यो | दत्वा मुखं शिरश्च मुण्डयित्वा, कोल्लाके भगवन्तं दृष्ट्रा त्वत्प्रव्रज्या मम भवतु इत्युक्तवान्, ततस्तेन शिष्येण सह स्वामी सुवर्णखलग्राम प्रति प्रस्थितो, मार्गे च गोपैर्महास्थाल्यां पायसं पच्यमानं निरीक्ष्य गोशाल: स्वामिनं जगौ, अत्र भुक्त्वा गम्यते, सिद्धार्थेन च तहङ्गाकथने रक्षितापि सा स्थाली भन्ना, ततो गोशालेन यहाव्यं तहवत्येवेति नियतिः स्वीकृता, ततः स्वामी ब्राह्मणग्राममगात्, तत्र नन्दोपनन्दभ्रातुयम्बन्धिनौ हौ पाटको, स्वामी नन्दपाटके प्रविष्टः, प्रतिलाभितश्च नन्देन, गोशालस्त उपनन्दगृहे पर्यषितान्नदानेन रुष्टो यद्यस्ति मे धर्माचार्यस्य तपस्तेजस्तदास्य गृहं दह्यतां इति शशाप, तदनु तद्गृहं आसन्नदेवता ददाह, पश्चात्प्रभुश्चम्पायां उपागतस्तत्र हिमासक्षपणेन चतुर्मासी अवसच्चरमहिमासपारणां च चम्पायाः बहिः कृत्वा कालासंनिवेशं गतः, | स्थितश्च शून्यगृहे कायोत्सर्गेण, गोशालेन तु तत्रैव शून्यगृहें सिंहो ग्रामणीपुत्रो विद्युन्मत्या दास्या सह क्रीडन् | हसितः, कुट्टितश्च तेन, स्वामिनं प्राह, अहं एकाक्येव कुट्टितो यूयं किं न वारयत, सिद्धार्थः प्राह, मैवं पुनः | कुर्याः, ततः पात्राशालके गतस्तस्थिवांश्च शून्यागारे, तत्र स्कन्दः स्वदास्या स्कन्दिलया सह क्रीडन् हसितस्तथैव 00000000000000000000000000000000 0000000000 ॥३.८॥ Mone Jain Education For Private & Personel Use Only Law.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy