SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ कल्प. १३०७॥ सुबा. 300000000 000000000000000000000000000000000000000 तृणादि न भक्षयतः, एवं च तस्य श्रावकस्यापि साधर्मिकत्वेन अत्यन्तं प्रियो जातो; एकदा तस्य जिनदासस्य मित्रेण तो अतिबलिष्ठौ सन्दरौ वषौ विज्ञाय तं श्रेष्टिनं अनापृच्छयैव भण्डीरवनयक्षयात्रायै अदृष्टधरौ अपि तथा वाहितौ यथा त्रुटितौ, आनीय तस्य गृहे बद्धौ, श्रेष्ठी च तौ तदवस्थौ विज्ञाय साधुलोचनो भक्तप्रत्याख्यापननमस्कारदानादिभिर्निर्यामितवान् , ततस्तौ मृत्वा नागकुमारी देवी जातो, तयोश्च नवीनोत्पन्नयोर्दत्तोपयोगयोरे. कतरेण नौ रक्षिता अन्येन च प्रभुं उपसर्गयन् सुदंष्ट्रसुरः प्रतिहतः, ततस्तं निर्जित्य भगवतः सत्त्वं रूपं च गायन्तौ नृत्यन्तौ समहोत्सवं सुरभिजलपुष्पवृष्टिं कृत्वा तौ स्वस्थानं गतौ ॥ भगवानपि राजगृहे नालन्दायां तन्तुवायशालैकदेशे अनुज्ञाप्य आद्यं मासक्षपणं उपसंपद्य तस्थौ, तत्र च मङ्खलिनाममङ्खपुत्रः सुभद्राङ्गजो बहुलहिजगोशालायां जातत्वात् गोशालनामा मङ्खकिशोर उपाययौ, स च स्वामिनं मासक्षपणपारणके विजयश्रेष्ठिना करादिविपुलभोजनविधिना प्रतिलम्भितं तत्र पञ्चदिव्यादिमहिमानं च निरीक्ष्य अहं त्वच्छिष्योऽस्मीति खामिनं उवाच, ततो द्वितीयपारणायां नन्देन पक्कान्नादिना, ततस्तृतीयायां सुनन्देन परमान्नादिना स्वामी प्रतिलम्भितः, चतर्थमासक्षपणे कोल्लागसन्निवेशे भगवानागतस्तत्र बहुलनामा द्विजः पायसेन प्रतिलम्भितवान् , पञ्च दिव्यानि 00000000000000000000000000000000000000000000 Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy