SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ कल्प. । | सुबो ॥३०६॥ 000000000000000000000000000000000000000000000000004 मरणान्तं कष्टं आपतिष्यति, परं अस्य महात्मनः प्रभावात् सङ्कटं विलयं यास्यति, एवं च गङ्गां उत्तरतः प्रभोस्त्रिपृष्ठभवविदारितसिंहजीवसदंष्टदेवकृतं नौमज्जनादिकं विघ्नं कम्बलशम्बलनामानौ नागकुमरौ आगत्य निवारितवन्तौ, तयोश्चोत्पत्तिरेवं-मथुरायां साधुदासीजिनदासौ दम्पती, परमश्रावको, पञ्चमव्रते सर्वथा चतुष्पदप्रत्याख्यानं चक्रतुः, तत्र चैका आभीरी वकीयं गोरसं आनीय साधदास्यै ददाति, सा च यथोचितं मूल्यं ददाति, एवं च कालेन तयोः अत्यन्तं प्रीतिर्जाता, एकदा तया आभीर्या विवाहे निमन्त्रितौ तौ दम्पती ऊचतुः, यदुत भो आवाभ्यां आगन्तुं न शक्यते, परं यद् भवतां विवाहे युज्यते तदस्मद्नेहाद ग्राह्यं, ततो व्यवहारिदत्तैश्चन्द्रोदयाद्युपकरणैर्वस्त्राभरणधूपा- | दिभिश्च स आभीरविबाहोऽत्यन्तं उत्कृष्टो जातस्तेन प्रमुदिताभ्यां आभाराभीरीभ्यां अतिमनोहरो समानवयसौ बालवृषभौ आनीय तयोर्दत्तौ, तौ नेच्छतः, बलाद् गृहे बध्ध्वा तौ स्वगृहं गतौ, व्यवहारिणा चिन्तितं, यदि इमौ प्रेषयिष्यते तदा षण्ढीकरणभारोहहनादिभिर्दुःखिनौ भविष्यतः इत्यादि विचिन्त्य प्रासुकतृणजलादिभिस्तौ पोष्यमाणौ वाहनादिश्रमविवर्जितौ सखं तिष्ठतः; अन्यदा च अष्टम्यादिष कृतपौषधेन तेन श्रावकेण पस्तकादि वाच्यमानं निशम्य तौ भद्रकौ जातो, यस्मिन् दिने स श्रावक उपवासं करोति, तस्मिन् दिने तौ अपि 1000000000000000000000000000000000000000000000000000 ॥३ २५. Jain Education in For Private & Personel Use Only ww.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy