________________
कल्प०
॥३०॥
90000000000000000000000000000000000000000001
भगवतो महिमा जायते रम, भगवन्महिमानं दृष्ट्रा प्रद्विष्टेन अच्छन्दकेन तृणच्छेदविषये प्रश्ने कृते सिद्धार्थेन | | | सुबो. न छेत्स्यते इत्युक्ते छेदनोद्यतस्य तस्याङ्गुलीदत्तोपयोगः शक्रः समागत्य वज्रेण चिच्छेद, ततो रुष्टः सिद्धार्थो जनानां चौरोऽयमित्यवदत् ततः कथमिति जनेषु पृच्छत्सु सिद्धार्थो जगौ, अनेन कर्मकरवीरघोषस्य दशपलप्रमितं वट्टलकं गृहीत्वा खजूंरीवृक्षाधः स्थापितं, द्वितीयं इन्द्रशर्मण ऊरणको भक्षितस्तदस्थीनि स्वगृहबदर्या अधः स्थापितानि सन्ति, तृतीयं तु अवाच्यं, अस्य भायैव कथयिष्यति, ततो जनर्गत्वा भार्या पृष्टा, सापि तदिने तेन सह कृतकल हा कोपादवाच, भो भो जना अद्रष्टव्यमखोऽयं पापात्मा, यदयं स्वभगिनीमपि भङ्क्ते, ततः स भृशं लजितो विजने समागत्य स्वामिनं विज्ञपयामास, स्वामिन् त्वं विश्वपूज्यः सर्वत्र पूज्यसे, अहं तु अत्रैव जीवामीति, ततः प्रभुस्तस्याप्रीति विज्ञाय ततो विहरन् श्वेताम्ब्यां गच्छन् जनैर्वार्यमाणोऽपि कनकखलतापसाश्रमे चण्डकौशिकप्रतिबोधाय गतः ॥ स च प्राग्भवे महातपस्वी साधुः, पारणके विहरणार्थ गमने जातां मण्डूकीविराधनां ईर्यापथिकीप्रतिक्रमणे गोचरचर्याप्रतिक्रमणे सायंप्रतिक्रमणे च त्रिशः क्षुल्लकेन स्मारितः सन् क्रुद्धरतं शैक्षं हन्तुं धावितः, 80३०४ | स्तम्मनास्फाल्य मृत्वा ज्योतिष्के देवो जातस्ततश्च्युतस्तत्राश्रमे पञ्चशततापसाधिपतिश्चण्डकौशिकाख्यो बभव, तत्रापि
000000000000000000000000000000000
0000000
1000000
Jain Education Internat
For Private
Personal Use Only
Vijainelibrary.org