________________
कल्प ०
।।३०३ ।। ।
Jain Education Inte
शर्माणौ अपि अधीताष्टाङ्गनिमित्तौ तत्रागतौ, ते भगवन्तं दिव्यगन्धचूर्णपुष्पपूजितं निरीक्ष्य प्रमुदिताः प्रणमन्ति, तत उत्पलोsवोचत्, हे भगवन् यत्त्वया तालपिशाचो हतस्तेन त्वं अचिरेण मोहनीयं कर्म हनिष्यसि १ यच्च सेव्यमानः सित: पक्षी दृष्टस्तेन त्वं शुक्लध्यानं ध्यास्यसि २ यच्च चित्रकोकिलः सेवमानो दृष्टस्ततस्त्वं द्वादशाङ्गी प्रथयिष्यसि ३ यच्च गोवर्गः सेवमानो दृष्टस्तेन साधुसाध्वीश्रावकश्राविकारूपञ्चतुर्विधः संघस्त्वां सेविष्यते ४ यश्च त्वया समुद्रस्तीर्णस्ततस्त्वं संसारं तरिष्यसि ५ यश्रोद्गच्छन् सूर्यो दृष्टस्तेन तव अचिरात् केवलज्ञानं उत्पत्स्यते ६ यच्च त्वया अन्त्रैर्मानुषोत्तरो वेष्टितस्तेन त्रिभुवने तब कीर्त्तिर्भविष्यति ७ यच्च त्वं मन्दरचूलां आरूढस्तेन त्वं सिंहासने उपविश्य देवमनुजपर्षदि धर्म प्ररूपयिष्यसि ८ यच्च त्वया विबुधालङ्कृतं पद्मसरो दृष्टं, तेन चतुर्निकायजा देवास्त्वां सेविष्यन्ति ९ यत्त्वया मालायुग्मं दृष्टं तद्दर्थं तु नाहं जानामि, तदा भगवता प्रोक्तं हे उत्पल ! यन्मया दामयुग्मं दृष्टं तेन अहं द्विविधं धर्मं कथयिष्यामि, साधुधर्मं श्रावकधर्मे च ॥ तत उत्पलो वन्दित्वा गतः, तत्र स्वामी अष्टभिः अर्द्धमासक्षपणैस्तां प्रथमां चतुर्मासीमतिक्रम्य ( ततः स्वामी) मोराकसन्निवेशं गतस्तत्र प्रतिमास्थितस्य वीरस्य सत्कारार्थं सिद्धार्थो भगवद्देहं अधिष्ठाय निमित्तानि कथयति,
For Private & Personal Use Only
सुबो
||३०३॥
w.jainelibrary.org