________________
कहप०
सुबो.
॥३०२॥
000000000000000000000000000000000000000000000
तथैव मुक्तानां मृतकानां अस्थिनिकरैः स ग्रामः अस्थिकग्राम इति प्रसिद्धो बभूव, ततश्च अवशिष्टलोकाराधितेन | तेन प्रत्यक्षाभूय स्वप्रासादः स्वप्रतिमा च कारिता, तत्र जनाः प्रत्यहं पूजां कुर्वति, भगवांस्तु तत्प्रतिबोधनाय तत्र चैत्ये समागतः, दुष्टोऽयं रात्रौ स्वचैत्ये स्थितं व्यापादयतीति जनैर्वार्यमाणोऽपि तत्रैव रात्रौ स्थितः ॥ तेन च भगवतः क्षोभाय भूमेर्भेदकरोऽट्टहासः कृतः, ततो हस्तिरूपं, ततः सर्परूपं विकृत्य दुस्सहा उपसर्गाः कृताः, भगवांस्तु मनागपि न क्षुभितः, तत एकैकापि या अन्यजीवितापहास्तथाविधाः शिरः १ कर्ण २ नासिका ३ चक्षु४ दन्त ५ पृष्ठ ३ नख ७ लक्षणेष्वङ्गेषु विविधा वेदनाः प्रारब्धाः, तथापि अकम्पितचित्तं भगवन्तं निरीक्ष्य स प्रतिबुद्धः, अस्मिन्नवसरे च सिद्धार्थः समागत्योवाच, भो निर्भाग्य ! दुर्लक्षण शूलपाणे किमेतदाचरितं, यत्सुरपज्यस्य भगवत आशातना कृता, यदि शको ज्ञास्यति तदा तव स्थानं स्फेटयिष्यति, ततः पुनीतः सन्नधिकं भगवन्तं पूजयामास, भगवतोऽग्रे गायति नृत्यति च, तदाकर्य च लोकाश्चिन्तितवन्तो यदनेन स देवार्यो हतस्ततो गायति नृत्यति च, तत्र च देशोनान् रात्रेश्चतुरोऽपि यामान अत्यन्तं वेदनां सोढवान्, इति प्रभाते क्षणं निद्रां लेभे, तत्र च प्रभुरुर्ध्वस्थ एव दश स्वप्नान् दृष्ट्वा जागरितः ।। प्रभाते लोको मिलितः, उत्पलेन्द्र
000000000000000000000000000000000000000000000000
-
॥३.२
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org