SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ कल्प. सबा. 10000000000000000000000000000000000000000000000000000 अणुलोमा वा, पडिलोमा वा, ते उप्पन्ने सम्म सहइ खमइ तितिक्खइ अहियासेइ ॥ ११८ ॥ वा) तैर्यग्योनिकाः तिर्यक्कृताः (अणुलोमा वा ) अनुकूला:, भोगार्थ प्रार्थनादिकाः (पडिलोमा वा) प्रतिकूला: प्रतिलोमाः ताडनादिकाः ( ते उप्पन्ने सम्मं सहइ) तान उत्पन्नान सम्यक् सहते, भयाऽभावेन (खमइ) | क्षमते, क्रोधाऽभावेन (तितिक्खइ) तितिक्षते, दैन्याकरणेन (अहियासेइ) अध्यासयति निश्चलतया॥११८॥ तत्र देवादिकृतोपसर्गसहनं यथा-स्वामी प्रथमचतुर्मासकं मोराकसन्निवेशादागत्य शूलपाणियक्षचैत्ये स्थितः, स च यक्षः पर्वभवे धनदेववणिजो वृषभ आसीत् , तस्य च नदी उत्तरतः उत्तरतः शकटपञ्चशती पले निमना, तदा च उल्लसितवीर्येण एकेन वृषभेण वामधुरीणेन भूत्वा यदि ममैव खण्डद्वयं विधायोभयोः पार्श्वयोर्योजयति तदाऽहं एक एव सर्वाणि उत्तारयामीति चिन्तयता सर्वाणि शकटानि नियूंढानि, स तथाविधेन पराक्रमेण त्रुटितसन्धिरशक्तशरीरो जातः, तदा च तं अशक्तं निरीक्ष्य धनदेवेन वर्धमानग्रामे गत्वा ग्राममुख्यानां तृणजलनिमित्तं द्रव्यं दत्वा स तत्र मुक्तः, ग्राममुख्यैश्च न काचिच्चिन्ता कृता, स च क्षुत्तड्बाधितः शुभाध्यवसायान्मृत्वा व्यन्तरो | जातस्तेन प्राग्भवव्यतिकरस्मरणाज्जातकोपेन तत्र मारीकरणेन अनेके जना मारिताः, कियतां च संस्कारो भवतीति 00000000000000000000 0000000000000000000000000000 ||३० Jain Education inte For Private & Personel Use Only www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy