________________
कल्प
॥१४॥
10000000000000000000000000000000000000000000000000
समहः, स्थविरावली पुष्पाणि, सामाचारीज्ञानं सौरभ्यं, फलं मोक्षप्राप्ति :॥
किञ्च-वाचनात्साहाय्यदानात् सर्वाक्षरश्रुतेरपि ॥ विधिनाराधितः कल्पः शिवदोऽन्तर्भवाष्टकम् ॥१॥ एगग्गचित्ता जिणसासणम्मि पभावणापूअपरायणा जे ॥ तिसत्तवारं निसुणंति कप्पं भवण्णवं गोअम ते तरन्ति ॥ २ ॥ एवं च कल्पमहिमानं आकर्य तपःपूजाप्रभावनादिधर्मकार्येषु कष्टधनव्ययसाध्येषु आलस्यं न विधेयं, सकलसामग्रीसहितस्यैव वाञ्छितफलप्रापकत्वात् , यथा बीजं अपि वृष्टिवायुप्रभृतिसामग्रीसद्भावे एव फलनिष्पत्ती समर्थ, नान्यथा, एवं अयं श्रीकल्पोऽपि देवगुरुपूजाप्रभावनासाधर्मिकभक्तिप्रमुखसामग्रीसद्भावे एव यथोक्तफलहेतुः, अन्यथा-'इको वि नमुक्कारो जिणवरवसहस्स वद्धमाणस्स ॥ संसारसागराओ तारेइ नरं व नारी वा ॥ १ ॥ इति श्रुत्वा किञ्चित्प्रयाससाध्ये कल्पश्रवणेऽपि आलस्यं भवेत् । अथ पुरुषविश्वासे वचनविश्वास इति कल्पसूत्रस्य प्रणेता वक्तव्यः, स च चतुर्दशपूर्वविद्युगप्रधानश्रीभद्रबाहुस्वामी दशाश्रुतस्कन्धस्य अष्टमाध्ययनतया प्रत्याख्यानप्र| वादाभिधाननवमपूर्वात् उध्धृत्य कल्पसूत्रं रचितवान् , तत्र पूर्वाणि च प्रथमं एकेन हस्तिप्रमाणमषीपुञ्जेन | लेख्यम् (१) द्वितीयम् द्वाभ्याम् (२) तृतीयम् चतुर्भिः (४) चतुर्थम् अष्टाभिः (८) पञ्चमम् षोडशभिः (१६)
10000000000000000000000000000000000000000000000000000
Jain Education inte
For Private Personel Use Only
Pr.jainelibrary.org