________________
कल्प०
11931:
३
Jain Education I
हितकारको भवति, तथाहि - केनचिद् भूपतिना स्वपुत्रस्य अनागतचिकित्सार्थं त्रयो वैद्या आकारितास्तत्र प्रथमो वैद्य आह— मदीयं औषधं रागसद्भावे रोगं हन्ति, रोगाऽभावे च दोषं प्रकटयति, राज्ञोक्तं सुप्तसर्पोत्थापन तुल्येन अनेन औषधेन किं । द्वितीयः प्राह — मदीयं औषधं विद्यमानं व्याधिं हन्ति, रोगाऽभावे च न गुणं न दोषं च करोति, राजा प्राह — भस्मनिहुततुल्येन अनेनापि पर्याप्तं । तृतीयः प्राह — मदीयं औषधं सद्भावे रोगं हन्ति, तद्भावे च शरीरे सौन्दर्यवर्यतुष्टिपुष्टिं करोति, राज्ञोक्तं इदं औषधं समीचीनं, तद्वदयमपि कल्पो दोषसद्भावे दोषं निराकरोति, दोषाऽभावे च धर्मे पुष्णाति । तदेवं समुपस्थिते पर्युषणापर्वणि मङ्गलनिमित्तं पञ्चभिरेव दिनैः कल्पसूत्रं वाचनीयं तच्च यथा — देवेषु इन्द्रः, तारासु चन्द्रः, न्यायप्रवीणेषु रामः, सुरूपेषु कामः, रूपवतीषु रम्भा, वादित्रेषु भम्भा, गजेषु औरावण: साहसिकेषु रावणः, बुद्धिमत्सु अभयः, तीर्थेषु शत्रुञ्जयः, गुणेषु विनयः, धानुष्केषु धनञ्जयः, मन्त्रेषु नमस्कारः, तरुषु सहकारस्तथा सर्वशास्त्रेषु शिरोमणिभावं ( कल्पसूत्रं ) बिभर्त्ति यतः - नार्हतः परमो देव न मुक्तेः परमं पदम् ॥ न श्रीशत्रुञ्जयात्तीर्थं श्रीकल्पान्न परं श्रुतम् ॥ १ ॥ तथायं कल्पः साक्षात्कल्पद्रुम एव, तस्य च अनानुपूर्व्या उक्तत्वात् श्रीवीरचरित्रं बीजं, श्रीपार्श्वचरित्रमङ्कुरः, श्रीनेमिचरित्रं स्कन्धः, श्री ऋषभचरित्रं शाखा
For Private & Personal Use Only
बासु ०
119311
www.jainelibrary.org