SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ - कल्प | सुबा. ॥२९९। Goooooooooooooooooooooooooooooooooooooooooooooo वतो निष्प्रयोजनस्यापि वस्त्रस्य यदर्द्धदानं तत् तत्सन्ततेर्वस्त्रपात्रेषु मूर्छा सूचयति इति केचित्, विप्रकुलोत्पन्नत्वं सूचयतीत्यपरे । ब्राह्मणस्तु तदई गृहीत्वा दशाञ्चलकृते तुन्नवायस्याऽदर्शयत्, सोऽप्युवाच, याहि भो ब्राह्मण ! तमेव प्रभुं अनुगच्छ, स हि निर्ममः करुणाम्भोधिद्धितीयं अपि अई दास्यति, ततस्तदर्द्धद्वयं अहं तथा संयोजयिष्यामि यथा अक्षतस्येव । तस्य दीनारलक्षं मूल्यं भविष्यति, तेन च अर्धमर्धविभक्तेन द्वयोरप्यावयोर्दारिद्र्यं यास्यति, इति तत्प्रेरितो विप्रोऽपि पुनः प्रभपार्श्वमागतो लज्जया प्रार्थयितुं अशक्तो वर्ष यावत् पृष्ठे बभ्राम; ततश्च स्वयं पतितं तदर्ध गृहीत्वा जगाम, तदेवं भगवता सवस्त्रधर्मप्ररूपणाय साधिकमासाधिकं वर्षे यावद्वस्त्रं स्वीकृतं, सपात्रधर्मस्थापनाय च प्रथमां पारणां |पात्रेण कृतवान् , ततः परं तु यावज्जीवं अचेलकः पाणिपात्रश्वाऽभूत् , एवं च विहरतो भगवतः कदाचिदगडातटे सूक्ष्ममृत्तिकाकर्दमप्रतिबिम्बितासु पदपतिषु चक्रध्वजाङ्कुशादीनि लक्षणानि निरीक्ष्य पुष्पनामा सामुद्रिकश्चिन्तयामास ॥ यदयं एकाकी कोऽपि चक्रवर्ती गच्छति, तद् गत्वाऽस्य सेवां करोमि, यथा मम महानुदयो भवतीति त्वरित पदानुसारेण भगवत्पार्श्वमागतो भगवन्तं निरीक्ष्य दध्यौ, अहो मया वृथैव महता कष्टेन सामुद्रिकं अधीतं, यदि ईदृग्लक्षणलक्षितोऽपि श्रमणो भूत्वा व्रतकष्टं समाचरति तदा सामुद्रिकपुस्तकं तु जले क्षेप्यमेव; इतश्च दत्तोपयोगः 1000000000000000000000000000000000000000000000000000 ॥२९९।। Jain Education Internationa For Private & Personel Use Only 12mjainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy