________________
कल्प
11२९७।।
00000000000000000000000000000000000000000000000000
॥ समणे भगवं महावीरे संवच्छरं साहियं मासं चीवरधारी हु पाणिपडिग्गहिए ।।११७ ॥ नाप्रीतिमद्गृहे वासः १ । स्थेयं प्रतिमया सदा २ ॥ न गेहिविनयः कार्यो ३ । मौनं ४ पाणी च || भोजनम् ५ ॥१॥
(समणे भगवं महावीरे ) श्रमणो भावान् महावीरः ( संवच्छरं साहियं मासं ) साधिकं मासाधिकसंवत्सरं यावत् (चीवरधारी हुत्था) चीवरधारी अभूत् ( तेणं परं अचेलए ) तेन परं ततः ऊर्ध्व साधिकमासाधिकवर्षादृवं च अचेलकः ( पाणिपडिग्गहिए ) पाणिपतद्ग्रहः करपात्रश्चाभवत्, तत्र अचेलकभवनं चैवंसाधिकमासाधिकसंवत्सरादूर्व विहरन् दक्षिणवाचालपुरासन्नसुवर्णवालुकानदीतटे कण्टके विलग्य देवदूष्याः पतिते सति भगवान् सिंहावलोकनेन तदद्राक्षीत्, ममत्वेनेति केचित्, स्थण्डिलेऽस्थण्डिले वा पतितमिति विलोकनायेत्यन्ये, अस्मत्सन्ततेर्वस्त्रपात्रं सुलभं दुर्लभ वा भावीति विलाकनार्थ इति अपरे, वृद्धास्तु कण्टके वस्त्रविलगनात् स्वशासनं कण्टकबहुलं भविष्यतीति विज्ञाय निर्लोभत्वात् तहस्त्राई न जग्राहेति, ततः पितर्मित्रेण ब्राह्मणेन
1000000000000000000000000000000000000000000000000001
२९७॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org