SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ कल्प. सचो •omoooommons eeeee ॥२९५॥ D 00000000000000000000000000000000000000000000000 उपसर्गान् कुर्वन्ति. भगवास्तु निष्प्रकम्पः सर्व सहमानो विहरति. तस्मिन् दिने च महुर्तावशेष कुमारग्रामं प्राप्तस्तत्र रात्री कायोत्सर्गेण स्थितः; इतश्च तत्र कश्चिद् गोपः सर्व दिनं हले वृषान् वाहयित्वा सन्ध्यायां तान् प्रभुपार्श्वे मुक्त्वा गोदोहाय गृहं गतः, वृषभास्तु वने चरितुं गताः, स चागत्य प्रभु पृष्टवान् , देवार्य ! क्व मे वृषाः, अजल्पति च प्रभौ अयं न वेत्तीति वने विलोकितुं लमः, वृषास्तु रात्रिशेषे स्वयमेव प्रभुपार्श्व आगताः, गोपोऽपि तत्रागतस्तान् दृष्ट्वा अहो ! जानतापि अनेन समयां रात्रिं अहं भ्रामितः इति कोपात् सेल्हकमुत्पाट्य प्रहर्तुं धावितः, इतश्च शकरतं वृत्तान्तं अवधिना ज्ञात्वा गोपं शिक्षितवान्॥अथ तत्र शक्रः प्रभुं विज्ञपयामास प्रभो! तवोपसर्गा भूयांसः सन्ति, ततो हादशवर्ष यावत् वैयावृत्यनिमित्तं तवान्तिके तिष्ठामि, ततः प्रभुरवादीदेवेन्द्र ! कदाप्येतन्न भूतं, न भवति, न भविष्यति च यत् कस्यचिद्देवेन्द्रस्य असुरेन्द्रस्य वा साहाय्येन तीर्थङ्काराः केवलज्ञानं उत्पादयन्ति किन्तु स्वपराक्रमेणैव केवलज्ञानं उत्पादयन्ति; ततः शक्रोऽपि मरणान्तोपसर्गवारणाय प्रभोर्मातृष्वस्रेयं व्यन्तरं | वैयावृत्त्यकरं स्थापयित्वा त्रिदिवं जग्मिवान् ॥ ततः प्रभुः प्रातः कोल्लाकसन्निवेशे बहुलब्राह्मणगृहे मया स 1॥२९ धर्मः प्रज्ञापनीय इति प्रथमपारणां गृहस्थपात्रे परमान्नेन चकार, तदा च चेलोत्क्षेपः: (१) गन्धोदकवृष्टिः le doeeeeeeeeeeeeeee बहुलब्राह्मणगृहे मया सपात्रो Jan Education Inter For Private Personel Use Only www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy