________________
कल्प.
सुबो.
॥२८॥
000000000000000000000000000000000000000000
संखपणवपडहभेरिझल्लरिखरमुहिहुडुक्कदुंदुहिनिम्घोसनाइयरवेणं कुंडपुरं नगरं मझमझेणं निगच्छड निगच्छित्ता जेणेव नायसंडवो उज्जाणे जेणेव असोगवरपायवे तेणेव
उवागच्छइ ॥ ११५॥ ( संखपणवपडहभेरीझल्लरीखरमुहिहुडुक्कदुंदुहिनिग्घोप्तनाइयरवेणं) शङ्खः प्रतीतः, पणवः मृत्पटहः, पटहः | काष्ठपटहः, भेरी ढक्का, झल्लरी प्रतीता, खरमुखी काहला, हुडुक्कः त्रिवलितुल्यवाद्यविशेषः, दुन्दुभिर्देववाद्यं, || तेषां निर्घोषः, तस्य नादितः प्रतिशब्दः तद्रूपेण खेण शब्देन युक्तं, एवंरूपया ऋया व्रताय व्रजन्तं भगवन्तं पृष्ठतश्चतुरङ्गसैन्यपरिकलितो ललितच्छत्रचामरविराजितो नन्दिवर्धननृपो गच्छति ॥ पूर्वोक्ताडम्बरेण युक्तो भगवान् ( कुंडपुर नगरं मझंमज्झेणं ) क्षत्रियकुण्डनगरस्य मध्यभागेन (निगच्छइ ) निर्गच्छति ( निगच्छित्ता) निर्गत्य (जेणेव नायसंडवणे उज्जाणे) यत्रैव ज्ञातवनखण्डवनं इति नामकं उद्यानं अस्ति (जेणेव असोगवरपायवे) यत्रैव अशोकनामा वरपादपः श्रेष्ठवृक्षः ( तेणेव उवागच्छइ ) तत्रव उपागच्छति ॥ ११५ ॥
-00000000000000000000000000000000000000000000000000001
||२८९||
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org