SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ 0000000 कल्प सुबो. १२८१॥ 1000000000000000000000000000000000000000000000000001 संत्यज्य काचित्तरुणी रुदन्तं । स्वपोतमोतुं च करे विधृत्य ॥ निवेश्य कट्यां त्वरया वजन्ती । हासावकाशं न || चकार केषाम् ॥ ५॥ अहो महो रूपमहो महौजः सौभात्यमेतत् कटरे शरीरे ॥ गृह्णामि दुःखानि | करस्य धातु-यच्छिल्पमीदृग् वदतिरम काचित् ॥ ६॥ काचिन्महेला विकसत्कपोला । श्रीवीरव क्वेक्षणगाढलोला ॥ विस्रस्य दूरं पतितानि तानि । नाज्ञासिषुः काञ्चनभूषणानि ॥ ७ ॥ हस्ताम्बुजाभ्यां शुचिमौक्तिकौटु–वाकिरन् काश्चन चञ्चलाक्ष्यः ॥ काश्चिज्जगुर्मञ्जुलमङ्गलानि । प्रमोदपूर्णा ननृतुश्च | काश्चित् ॥ ८॥ इत्थं नागरनागरीनिरीक्ष्यमणविभवप्रकर्षस्य भगवतः पुरतः प्रथमतो रत्नमयान्यष्टौ मङ्गलनि क्रमेण प्रस्थितानि, तद्यथा-वस्तिकः १ श्रीवत्सो २ नन्द्याव” ३ वर्डमानकं ४ भद्रासनं ५ कलशो ६ मत्स्ययुग्म ७ दर्पणश्च ८॥ ततः क्रमेण पूर्णकलशभृङ्गारचामराणि, ततो महती वैजयन्ती, ततश्छत्रं, ततो मणिस्वर्णमयं सपादपीठं सिंहासनं, ततोऽष्टशतं आरोहरहितानां वरकुञ्जरतुरगाणां, ततस्तावन्तो घण्टापताकाभिरामाः ३ | रथाः, ततस्तावन्तो वरपुरुषाः, ततः क्रमेण हय १ गज २ रथ ३ पदात्यनीकानि ४ ततो लधुपताकासहरूपरिमण्डितः सहस्रयोजनोचो महेन्द्रध्वजः, ततः खड्गग्राहाः, कुन्तग्राहाः, पीठफलकग्राहाः, ततो हासकारकाः, | 000000000000000000000000000000000 8 ॥२८॥ 000000 Jan Education Intemanona For Private Personel Use Only www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy