________________
कल्प.
सुबो
॥२७७||
0000000 00000000000000000000000000000000000000000
| तच्चैवं-भगवान दीक्षादिवसात् प्राग्वर्षेऽवशिष्यमाणे प्राप्तकाले वार्षिकं दानं दातुं प्रवर्त्तते, सूर्योदयादारभ्य || कल्पवर्त्तवेलापर्यन्तं अष्टलक्षाधिका एका कोटिं सौवर्णिकानां प्रतिदिनं ददाति, वृणुत वरं वृणुत वरं इत्युद्घोषणापूर्वकं यो यन्मार्गयति तस्मै तबीयते, तच्च सर्व देवाः शक्रादेशेन पूरयन्ति, एवं च वर्षेण यद्धनं दत्तं तदच्यते-तिन्नेव य कोडिसया। अदासीई य हंति कोडिओ ॥ असीइं च सयसहस्सं । एयं संवच्छरे दिन्नं ॥१॥ तथा च कवयः-तत्तद्वार्षिकदानवर्षविरमदारियदावानलाः । सद्यः सज्जितवाजिराजिवसनालङ्कारदुर्लक्ष्यभाः ॥ सम्प्राप्ताः स्वगृहेऽर्थिनः सशपथं प्रत्याययन्तोऽगनाः । स्वामिन् षिवजनैर्निरुद्धहसितैः के यूयमित्यचिरे ॥१॥ एवं च दानं दत्वा पनर्भगवता नन्दिवर्धनः पृष्टः, राजंस्तव सत्कोऽपि अवधिः पूर्णस्तदहं दीक्षा गृह्णामि, ततो नन्दिनापि ध्वजहट्टालङ्कारतोरणादिभिः कुण्डपुरं सुरलोकसमं कृतं, ततो नन्दिराजः शक्रादयश्च कनकमयान् १ रूप्यमयान् २ मणिमयान् ३ कनकरूप्यमयान् ४ कनकमणिमयान् ५ रूप्यमणिमयान् ६ कनकरूप्यमणिमयान ७ मृन्मयांश्च ८ प्रत्येकं अष्टोत्तरसहस्रं कलशान् यावत् अन्यामपि च सकलां सामग्री कारयन्ति; ततोऽच्युतेन्द्राद्यैश्चतुःषष्टया सुरेन्द्रैरभिषेके कृते सुरकृताः कलशा दिव्यानुभावेन नृपकारितकलशेषु
10000000
000000000000000000000000000 ०००००००
॥२७७॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org