SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ कल्प० ॥२६७॥ Jain Education Int लङ्कारसुभमा: । पान्तु युष्मान् जिनेश्वराः || १ || इत्यादि वदन् कृतब्राह्मणरूपस्त्वरितं यत्र भगवान् तिष्ठति तत्र पण्डितगेहे समाजगाम, आगत्य पण्डितयोग्ये आसने भगवन्तं उपवेश्य पण्डितमनोगतान् संदेहान् पपृच्छ, श्रीवीरोऽपि बालोऽयं किं वक्ष्यतीत्युत्कर्णेषु सकललोकेषु सर्वाणि उत्तराणि ददौ ततो जैनेन्द्रं व्याकरणं जज्ञे; यतः - सको अतरसमक्खं । भगवन्तं आसणे निवेसित्ता || सदरस लक्खणं पुच्छे । वागरणं अवयवा इंदं ॥। १ सर्वे जना विस्मयं प्रापुः, अहो बालेनापि वर्द्धमानकुमारेण एतावती विद्या कुत्राधीता, पण्डितोऽपि चिन्तयामा|स-आबालकालादपि मामकीनान् । यान् संशयान् कोऽपि निरासयन्न ॥ बिभेद तांस्तान्निखिलान् स एष । बालोऽपि भो: पश्यत चित्रमेतत् ॥१ ॥ किञ्च - अहो ईदृशस्य विद्याविशारदस्यापि ईदृशं गाम्भीर्य, अथवा युक्तमेवेदं ईदृशस्य महात्मनः॥ यतः ― गर्जति शरदि न वर्षति वर्षाति वर्षासु निःस्वनो मेघः ॥ नीचो वदति न कुरुते । न वदति साधुः करोत्येव ॥ १ ॥ तथा असारस्य पदार्थस्य । प्रायेणाडम्बरो महान् । न हि खर्णे ध्वनिस्तादृग् । यादृक् कांस्ये प्रजायते ॥ २ ॥ इत्यादि चिन्तयन्तं पण्डितं शक्रः प्रोवाच - मनुष्यमात्रं शिशुरेष विप्र । न शङ्कनीयो भवता स्वचित्ते || विश्वत्रयीनायक एष वीरो | जिनेश्वरो वाङ्मयपारदृश्वा ॥ ३ ॥ इत्यादि श्रीवर्धमान For Private & Personal Use Only सुबो ॥ २६७॥ www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy