________________
।
कल्प
सुबो.
॥२६॥
0000000000000000000000000000000000000000000000000000
| अरुणोष्ठपुटः सितदन्तततिः ॥ शितिकेशभरोऽबुजमञ्जुकरः । सुरभिश्वसितः प्रभयोल्लसितः ॥ १॥ मतिमान् श्रुतवान् प्रथितावधियुक् । पृथुपूर्वभवस्मरणो गतरुक् । मतिकान्तिधृतिप्रभृतिस्वगुणै-जगतोऽप्यधिको जगतीतिलक: ॥ २ ॥ स चैकदा कौतुकरहितोऽपि तेषां उपरोधात् समानवयोभिः कुमारैः सह क्रीडां कुर्वाण आमलकीक्रीडा| निमित्तं पुराद बहिर्जगाम, तत्र च कुमारा वृक्षारोहणादिप्रकारेण क्रीडन्ति स्म, अत्रान्तरे सौधर्मेन्द्रः सभायां
श्रीवीरस्य धैर्यगुणं वर्णयन्नास्ते, यदुत पश्यत भो देवाः साम्प्रतं मनुष्यलोके श्रीवर्द्धमानकुमारो बालोऽप्यबालपराक्रमः शक्रादिभिर्देवैरपि भापयितुं अशक्यः, कटरे बालस्यापि धैर्य, तदाकर्ण्य च कश्चिन मिथ्यादृग् देवश्चिन्तयामास, अहो शक्रस्य प्रभुत्वाभिमाने निरङ्कुशा विचारा पुम्मिकापातेन नगराक्रमणमिवाऽश्रद्धेया च वचनचातुरी, यदिमं मनुष्यकीटपरमाणुं अपि इयन्तं प्रकर्ष प्रापयति, तदद्यैव तत्र गत्वा तं भीषयित्वा शक्रवचनं वृथा करोमि, इति विचिन्त्य मर्त्यलोकमागत्य शिंशपामुशलस्थूलेन लोलजिह्वायुगलेन भयङ्करफूत्कारेण करतराकारेण प्रसरत्कोपेन पृथुफटाटोपेन दीप्रमणिना महाफणिना तं क्रीडातरूं आवेष्टितवान, तद्दर्शनाच्च पलायि| तेषु सर्वेषु बालेषु मनागप्यभीतमनाः श्रीवर्धमानकुमारः स्वयं तत्र गत्वा तं फणिनं करेण गृहीत्वा दूरं
0000000000000000000000000000000000000000000000000000
Jain Education
For Private & Personel Use Only
T
hiw.jainelibrary.org