________________
कल्प०
॥१०॥
900000000000000000000cococococ0000000000000000000
सत्यं प्रोचुः, गुरुभिरूपालम्भे च दत्ते संमुखं गरूनेव उपालब्धवन्तः, यदस्माकं तदा नटनिषेधसमये नटीनिषेधोअपि कुतो न कृतो, भवतां एव अयं दोषः, अस्माभिः किं ज्ञायते, इति प्रथमो दृष्टान्तः--
तथा कश्चिद्वयवहारिसतः पित्रा बहुशः शिक्ष्यमाणो जनकादीनां संमुखं जल्पनं न कर्त्तव्यं इति पितृवचनं | वक्रतया मनसि दधार, अथैकदा सर्वेषु वजनेषु बहिर्गतेषु पुनः पुनः शिक्षयन्तं पितरं अद्य शिक्षयामीति विचिन्त्य | कपाटं दत्वा स्थितः, आगतेषु च पित्रादिषु द्वारोद्घाटनार्थ बहुशब्दरणेऽपि न वक्ति न चोद्घाटयति, भित्त्युल्लङ्घनेन मध्ये प्रविष्टेन च पित्रा हसन् दृष्ट उपालब्धश्च कथयामास, भवहिरेवोक्तं वृद्धानां उत्तरं न देयं, इति द्वितीयः॥
अथाजितादियतीनां ऋजप्राज्ञत्वे दृष्टान्तः-यथा केचिदजितजिनयतयो नटं निरीक्ष्य चिरेणागता गुरुभिः | पृष्टा यथास्थितं अकथयन् गुरुभिश्च निषिडाः, अथ अन्यदा ते बहिर्गताः नटी नृत्यंन्ती विलोक्य प्राज्ञत्वात् | विचारयामासुः यदस्माकं रागहेतुत्वाद् गुरुभिर्नटनिरीक्षणं निषिडं, तर्हि नटी तु अत्यन्तरागकारणत्वात् सर्वथा निषिद्धैवेति | विचार्य नटी नालोकितवन्तः ॥ ननु तर्हि द्वाविंशतिजिनयतीनां ऋजुप्राज्ञानां भवतु धर्मः, परं | प्रथमजिनयतीनां ऋजुजडानां कुतो धर्मः अनवबोधात्, तथा च वक्रजडानां वीरयतीनां तु सर्वथा धर्मस्य अभाव
3000000cococococococococococococ0000000000000000000
॥१०॥
Jain Education in
For Private & Personel Use Only
B
w
.jainelibrary.org