________________
कल्प
००००००००००००००००००००००००
॥९॥
प्रभो वयं नींनृत्यन्ती निरीक्षितुं स्थितास्तदा गुरुभिरूचे, भोमहाभागास्तदानीं भवतां नटो निषिद्धो, नटे निषिद्धे च नटी सुतरां निषिद्धैव, ततस्तैर्विज्ञप्तं स्वामिन् इदं अस्माभिर्न ज्ञातं, अथैवं न करिष्यामः, अत्र च जडत्वान्नटे निषिद्धे | | नटी निषिद्धैवेति तैर्न ज्ञातं, ऋजुत्वाच्च सरलं उत्तर दत्तं, इति प्रथमः। अत्र द्वितीयोऽपि दृष्टान्तः
यथा कोऽपि कुङ्कुणदेशीयो वणिग् वृद्धत्वे प्रवजितः, स चैकदा ऐर्यापथिकीकायोत्सर्गे चिरं स्थितो गुरुभिः | पृष्टः, एतावद्दीघे कार्योत्सर्गे किं चिन्तितं, स प्रत्युवाच, स्वामिन् जीवदया चिन्तिता, कथमिति पुनर्गुरुभिः पृष्ट आह, | पूर्व गृहस्थावस्थायां क्षेत्रेषु वृक्षनिषूदनपूर्वकं उप्तानि धान्यान बहून्यभूवन , इदानीं मम पुत्रास्तु निश्चिन्ता यदि | वृक्षनिषूदनं न करिष्यन्ति तदा धान्याऽभवनेन वराकाः कथं भविष्यन्ति इति ऋजुत्वात् स्वाभिप्राये यथास्थिते निवेदिते गुरुभिः कथितं, महाभाग ! दुर्ध्यातं भवता, अहो ! अयुक्तमेतद्यतीनां, इत्युक्ते च मिथ्यादुष्कृतं ददौ ॥ तथा वीरजिनयतीनां वक्रजडत्वेऽपि दृष्टान्तद्वयं
तथा केचिहीरतीर्थसाधवो नटं नृत्यन्तं विलोक्य गुरुसमीपं आगता गुरुभिः पृष्टा निषिद्धाश्च नटावलोकन प्रति. पुनरन्यदा नी नृत्यन्तीं विलोक्य आगता गुरुभिस्तथैव पृष्टा वक्रतया अन्यानि उत्तराणि दुदुर्बादं पृष्टाश्च
3000000000000000000000000000000000000000000000000
00000000000000000000000
॥९॥
Jain Education Intematonal
For Private Personel Use Only
www.jainelibrary.org