________________
कल्प.
सुबो.
२५३॥
100000000000000000000000000000000000000000000000000+
उस्सुक्कं उक्कर उक्किटें अदिज्जं अमिजं अभडप्पवेसं अदंडकोदंडिमं अधरिमं खरमुखी, दुन्दुभिः देववाद्यं, एतेषां यो निर्घोषो महाशब्दो, नादितं च प्रतिशब्दस्तद्रूपो यो खस्तेन, एवं रूपया सकलसामग्या युक्तः सिद्धार्थों राजा दश दिवसान् यावत् स्थितिपतितां कुलमर्यादां महोत्सवरूपां करोतीति योजना ।। अथ किं विशिष्टां स्थितिपतितामित्याह-(उस्सुकं) उच्छक्लां, शुक्लं विक्रेतब्यक्रयाणकं प्रति मण्डपिकायां राजदेयं ग्राह्यं दाण' इति लोके, तेन रहितां, पनः किंवि० ( उक्करं ) उत्करां करो गवादीन प्रति | प्रति वर्ष राजग्राह्यं द्रव्यं, तेन रहितां, अत एव ( उक्ट्रिं) उत्कृष्टां सर्वेषां हर्षहेतृत्वात् , पनः किंवि० | (अदिजं) अदेयां, यत् यस्य युज्यते तत्सर्व तेन हट्टतः ग्राह्य, न तु मूल्यं देयं, मूल्यं तु तस्य राजा ददातीति भावः, अत एव (अमिजं ) अमेयां अमितानेकवस्तुयोगात्, अथवा अदेयां विक्रयनिषेधात्, अमेयां क्रयविक्रयनिषेधात् , पुनः किंवि० ( अभडपवेसं ) नास्ति कस्यापि गृहे राजादेशदापनार्थ भटानां राजपुरुषाणां प्रवेशो यत्र सा तथा तां, पुनः किं वि० ( अदंडकोदंडिमं) दण्डो यथाऽपराधराजग्राह्य धनं, कुदण्डो महत्यपराधे अल्पं राजग्राह्यं धनं, ताभ्यां रहितां, पुनः किंवि० (अधरिमं) धरिमं ऋणं तेन रहिता, ऋणस्य राज्ञा दत्तत्वात् , पुनः
0000000000000000000000000000000000000000000000000000
||२५३॥
Jan Education Intem
For Private Personel Use Only