SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ कल्प ० ॥२३९॥ जनप्रमाणैर्विमानैः अत्रायान्तीति दिक्कुमारिकामहोत्सवः ॥ ततः सिंहासनं शाकं । चचालाचलनिश्चलम् ॥ प्रयुज्याथावधिं ज्ञात्वा । जन्मान्तिमजिनेशितुः ॥ १॥ वज्र्येकयोजनां घण्टां । सुघोषां नैगमेषिणा । अवादयत्ततो घण्टा - रेणुः | सर्वविमानगा ॥२॥ शक्रादेशं ततः सौच्चैः सुरेभ्योऽज्ञापत्स्वयम् ॥ तेन प्रमुदिता देवाश्चलनोपक्रमं व्यधुः ॥३॥ पालकाख्यामरकृतं । लक्षयोजन संमितम् || विमानं पालकं नामा - ऽध्यारोह त्रिदशेश्वरः || ४ || पालकविमाने इन्द्र सिंहास नस्य अग्रे अग्रमहिषीणां अष्टौ भद्रासनानि, वामतश्चतुरशीतिसहस्रसामानिकसुराणां तावन्ति भद्रासनानि, दक्षिणतो द्वादशसहस्राभ्यन्तरपार्षदानां तावन्ति भद्रासनानि, चतुर्दशसहस्रमध्यमपार्षदानां तावन्त्येव भद्रासनानि, एवं षोडशसहस्रबाह्यपार्षदानामपि षोडशसहस्रभद्रासनानि, पृष्ठतः सप्तानीकाधिपतीनां सप्त भद्रासनानि, चतसृषु दिक्षु प्रत्येकं चतुरशीतिसहस्रात्मरक्षकदेवानां चतुरशीतिसहस्रभद्रासनानि, तथा अन्यैरपि धनैर्देवै - वृतः सिंहासनस्थितः ॥ गीयमानगुणोऽचाली - दपरेऽपि सुरास्ततः ॥ ५ ॥ देवेन्द्रशासनात् केचित् । केचिन्मित्रानुवर्त्तनात् ॥ पत्नीभिः प्रेरिताः केचित् । केचिदात्मीयभावतः ||६|| केऽपि कौतुक्तः केऽपि । विस्मयात् केऽपि भक्तितः ॥ चेलुरेवं सुराः 1 विविधैर्वाहनैर्युताः ॥ ७ ॥ विविधैस्तूर्यनिर्घोषैर्घण्टानां क्वणितैरपि ॥ कोलाहलेन देवानां । शब्दाद्वैतं तदाऽजाने स Jain Education International For Private & Personal Use Only सुबो ॥२३९॥ www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy