________________
कल्प०
२३०॥
Jain Education
000,0000000000
अ आहारमाहारेमाणी विवित्तमउएहिं सयणासणेहिं, पंइरिक्कसुहाए मणाणुकुलाए विहारभूमी ए पसत्थदोहला
माहारेमाणी) तदपि देशे उचितस्थाने, न तु आकाशादौ तदपि काले भोजनसमये, न तु अकाले, आहारं आहारयन्ती (विवित्तमउएहिं सयणासणेहिं ) विविक्तानि दोषरहितानि, मृदुकानि कोमलानि यानि शयनासनानि तैः, तथा ( पइरिक्कसुहाए ) प्रतिरिक्ता अन्यजनापेक्षया निर्जना, अत एव सुखा सुखकारिणी तया ( मणाणुकूलाए विहारभूमीए ) मनोऽनुकूलया मनः प्रमोददायिन्या एवंविधया विहारभूम्या, चङ्क्रमणासनादिभूम्या कृत्वा, अथ सा त्रिशला किंविशिष्टा सती तं गर्भं परिवहति ( पसत्थदोहला ) प्रशस्ता दोहदा गर्भप्रभावोद्भूता मनोरथा यस्याः सा तथा, ते चैवं— जानात्यमारिपटहं पटु घोषयामि । दानं ददामि सुगुरून् परिपूजयामि । तीर्थेश्वराचैनमहं रचयामि सङ्घे । वात्सल्यमुत्सवभृतं बहुधा करोमि ||१|| सिंहासने समुपविश्य वरातपत्रा । संवीज्यमानकरणा सितचामराभ्यां || आज्ञेश्वरत्वमुदितानुभवामि सम्यग् । भूपालमौलिमणिलालितपादपीठा ॥ २ ॥ आरुह्य - कुञ्जरशिरः प्रचलत्पताका । वादित्रनादपरिपूरितदिग्विभागा ॥ लोकैः स्तुता जयजयेतिखैः प्रमोदा - दुद्यानकेलि
For Private & Personal Use Only
सुबो•
॥ २३०॥
ww.jainelibrary.org