________________
10000000
कल्प.
सुबो.
॥२२९॥
10000000000000000000000000000000000000000000000000
ववगयरोगसोगमोहभयपरिस्समा, जंतस्स गब्भस्स हिअं मियं पत्थं गब्भपोसणं तं देसे अ काले न्मच्यतेः ततो नातिशीतलाचैराहाराचैरतं गर्भ सा पोषयतीति यत्तम ॥ अथ सा त्रिशला कथंभता ( ववगयरोगसोगमोहभयपरिस्समा ) रोगा ज्वराद्याः, शोक इष्टवियोगादिजनितः, मोहो मूर्छा, भयं भीतिः, परिश्रमो व्यायाम एते व्यपगता यस्याः सा तथा, रोगादिरहिता इति भावः ॥ यत एते गर्भस्य अहितकारिणस्तदुक्तं सुश्रुते-दिवा स्वपत्याः स्त्रियाः स्वापशीलो गर्भः, अञ्जनादन्धः, रोदनाद्विकृतदृष्टिः, स्नानानुलेपनाद् दुःशीलः, तैलाभ्यङ्गात् | कुष्ठी, नखापकर्त्तनात् कुनखी, प्रधावनाच्चञ्चलः, हसनात् श्यामदन्तौष्ठतालुजिह्वः, अतिकथनाच्च प्रलापी, अतिशब्दश्रवणाधिरः, अबलेखनात् स्खलतिः, व्यञ्जनक्षेपनादिमारुतायाससेवनादुन्मत्तः स्यात् , तथा च कुलवृडास्त्रिशलां शिक्षयन्ति- मन्दं सञ्चर मन्दमेव निगद व्यामञ्च कोपक्रमं । पथ्यं भुक्ष्व बधान नीविमनघां मा माट्टहासं कृथाः ॥ आकाशे भव मा सुशेष शयने नीचैर्बहिर्गच्छ मा देवी गर्भभरालसा निजसखीवर्गेण सा शिक्ष्यते ॥ १ ॥ अथ सा त्रिशला पुनः किं कुर्वती ( जं तस्स गन्भस्स हिअं मिअं पत्थं गब्भपोसणं) यत्तस्य गर्भस्य | | हितं तदपि मितं, न तु न्यूनं अधिकं वा, पथ्यं आरोग्यकारणं, अत एव गर्भपोषकं (तं देसे य काले य आहार
5000000000000000000000000000000000000000
||२२९॥
For Private Personal Use Only
an Education Intematon
www.jainelibrary.org