________________
कल्प०
| सुबो.
॥२२८॥
10000000000000000000000000000000000000000000006000
भोयणाच्छायणगंधमल्लेहिं, ऋतौ भज्यमाना सेव्यमाना ये सुखहेतवो गुणकारिणस्तैः, तदुक्तं-वर्षासु लवणममृतं । शरदि जलं गोपयश्च | हेमन्ते । शिशिरे चामलकरसो । घृतं वसन्ते गुडश्चान्ते ॥ १॥ एवंविधैः (भोयणाच्छायणगंधमलेहिं ) भोजनाच्छादनगन्धमाल्यैस्तत्र भोजनं प्रतीतं, आच्छादनं वस्त्रं, गन्धाः पुटवासादयः, माल्यानि पुष्पमालास्तैर्गर्भ पोषयतीति शेषः, तत्र नातिशीतलादय एव आहारादयो गर्भस्य हिताः, न तु अतिशीतलादयस्ते हि केचिद्वातिकाः, केचित् पैत्तिकाः केचित् श्लेष्मकराश्च, ते च अहिताः, यदुक्तं वाग्भट्टे-वातलैश्च भवेद् गर्भः। कुब्जान्धजडवामनः॥ पित्तले रखलति पिङ-श्चित्री पाण्डः कफात्मभिः ॥ १॥ तथा, अतिलवणं नेत्रहरं । अतिशीतं मारुतं प्रकोपयति ॥ अत्यष्णं हरति बलं । अतिकामं जीवितं हरति ॥ २॥ अन्यच्च-मैथुन १ यान २ वाहन 3 मार्गगमन । प्रस्खलन ५ प्रपातन ६ प्रपीडन ७ प्रधावना ८ ऽभिघात ९ विषमशयन १० विषमासनो ११ पचास १२ वेग १३ विघाता १४ ऽतिरूक्षा १५ ऽतितिक्ता १६ ऽतिकटुकातिभोजना १७ ऽतिरोगा १८ ऽतिशोका १९ ऽतिक्षारसेवा २० ऽतिसार २१ वमन २२ विरचेन २३ प्रेखोलना २४ ऽजीर्ण २५ प्रभृतिभिर्गी बन्धना
30000000000000000000000000000000000000000000000000
|॥२२॥
१८
Jain Education International
For Private Personal Use Only
www.jainelibrary.org