________________
कल्प.
सुबो.
॥२१२॥
00000000000000000000000000000000000000000000
उच्छिन्नसामिआई, उच्छिन्नसेउआई, उच्छिन्नगोत्तागाराई, गामागरनगरखेडकब्बडमडंबदोणमुहपट्टणासमसंबाहसन्निवेसेसु, सिंघाडएसु वा, तिएसु वा, त्तागाराइं) येषां महानिधानानां धनिकसम्बन्धीनि गोत्राणि अगाराणि च प्रहीणानि विरलीभूतानि भवन्ति तानि प्रहीणगोत्रागाराणि (उच्छिन्नसामिआई) उच्छिन्नः सर्वथा अभावं प्राप्तः स्वामी येषां तानि उच्छिन्नस्वामिकानि (उच्छिन्नसेउआई) उच्छिन्नसेक्तृकाणि (उच्छिन्नगोत्तागाराइ.) उच्छिन्नगोत्रागाराणि, अथ केषु केषु स्थानेषु तानि वर्त्तन्ते इत्याह-(गामागरनम्ब डमडंबदोणमुहपट्टणासमसंबाहसंनिवेसेसु) ग्रामाः करवन्तः. आकराः लोहाद्यत्पत्तिभमयः, नगराणि कररहितानि, खेटानि धूलिप्राकारोपेतानि, कर्बटानि कुनगराणि मडम्बानि सर्वतोऽर्धयोजनात्परतोऽवस्थितग्रामाणि, द्रोणमुखानि यत्र जलस्थलपथावभावपि भवतः, पत्तनानि जलस्थलमार्गयोरन्यतरेण मार्गेण युक्तानि, आश्रमास्तीर्थस्थानानि तापसस्थानानि वा, संबाहाः समभूमौ कृषि कृत्वा कृषीवला यत्र धान्यं रक्षार्थ स्थापयन्ति, सन्निवेशाः सार्थकटकादीनां उत्तरणस्थानानि, एतेषां इन्द्वः, तथा ( सिंघाडएस वा ) शृङ्गाटकेषु शृङ्गाटकफलाकारस्थानेषु वा (तिएसु वा ) त्रिकेषु, मार्गत्रयमिलनस्थानेषु
0000000000000000000000000000000000000000000000000
२१२॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org