________________
कल्प.
'वयत्ति ' व्रतानि महाव्रतानि, तानि च द्वाविंशतिजिनसाधूनां चत्वारि, यतस्ते एवं जानन्ति, यत् अपरिहै। गृहीतायाः स्त्रियः भोगाऽसंभवात् स्त्री अपि परिग्रह एवेति परिग्रहे प्रत्याख्याते स्त्री प्रत्याख्यातैव; प्रथमचरमजिनसाधूनां तु तथाज्ञानाऽभावात् पञ्च व्रतानि, इति ष्ठः (६)
जित्ति' ज्येष्ठो रत्नाधिकः, स एव कल्पो वृद्धलघुत्वव्यवहार इत्यर्थः, तत्र आद्यान्तिमजिनयतीनां उपस्थापनातः प्रारभ्य दीक्षापर्यायगणना, मध्यमजिनयतीनां च निरतिचारचारित्रत्वादीक्षादिनादेव, अथ पितापुत्रमातादुहितराजामात्यश्रेष्ठिवणिक्पुत्रादीनां साई गृहीतदीक्षाणां उपरथापने को विधिः ? उच्यते, यदि पित्रादयः पुत्रादयश्च समकव षड्जीवनिकायाध्ययनयोगोहहनादिभियोग्यतां प्राप्तास्तदा अनुक्रमेणैवोपरथापना, अथ स्तोकं अन्तरं तदा कियाहलम्बेनापि पित्रादीनामेव प्रथममुपस्थापना, अन्यथा पुत्रादीनां बृहत्त्वेन पित्रादीनां अप्रीतिः स्यात्, अथ पुत्रादीनां सप्रज्ञ वेन अन्येषां निष्प्रज्ञत्वेन महदन्तरं तदा पित्रादिस्वं प्रतिबाध्यः, भो महाभाग सप्रज्ञोऽपि तव पुत्रः अन्येभ्यो बहुभ्यो लघुभविष्यति, तव पुत्रे च ज्येष्ठे तवैव गौरवं, एवं प्रज्ञापितः स यदि | अनुमन्यते तदा पुत्रादिः प्रथमं उपस्थापनीयः, नान्यथा, इति सप्तमः (७)
1000000000०००००००००००००००००००
10000000000000000000000000000000000000000000000000000
॥५॥
Jain Education Ines
For Private & Personal use only
Jaw.jainelibrary.org