________________
0000000000000000000000000
॥४॥
9000000000000000000000000000000000000000000000
अन्यत्र कुर्वन्ति तदा मूलोपाश्रयस्वामी शय्यातरो न भवति, यदि च तत्र निद्रायन्ति प्रतिक्रमणं च अन्यत्र कुर्वन्ति तदा हावपि शय्यातरौ भवतः, तथा तृणडगलभरममल्लकपीठफलकशय्यासंरतारकलपादिवस्तूनि चारित्रेच्छुः सोपधिकः शिष्यश्च शय्यातरस्यापि गृहीतुं कल्पते, इति तृतीयः ॥ (३)
___ 'रायपिंडत्ति ' सेनापति (१) पुरोहित (२) श्रेष्ठि (३) अमात्य (४) सार्थवाह (५) लक्षणैः पंचभिः सह राज्यं पालयन् मूर्धाभिषिक्तो यो राजा तस्य अशनादिचतुष्कं (४) वस्त्रं (५) पात्रं (६) कम्बलं (७) रजोहरणं (८) चेति अष्टविधः प्रथमचरमजिनसाधूनां निर्गच्छदागच्छत्सामन्तादिभिः स्वाध्यायव्याघा-|| तस्य अपशकुनबुद्ध्या शरीरव्याघातस्य च संभवात्, खाद्यलोभलघुत्वनिन्दादिदोषसंभवाञ्च निषिद्धः, द्वाविंशतिजिन-1 साधूनां तु ऋजुप्राज्ञत्वेन पूर्वोक्तदोषाभावेन राजपिण्डः कल्पते, इति चतुर्थः (४)
'किइकम्मत्ति ' कृतिकर्म वंदनकं, तद् द्विधा, अभ्युत्थानं हादशावर्त च, तत्सर्वेषां अपि तीर्थेषु साधुभिः परस्परं यथादीक्षापर्यायेण विधेयं, साध्वीभिश्च चिरदीक्षिताभिरपि नवदीक्षितोऽपि साधुरेख वन्द्यः, पुरुषप्रधानत्वात् धर्मस्य, इति पञ्चमः (५)
॥४॥
900000000000.
Jain Education in
For Private & Personal Use Only
Nw.jainelibrary.org