________________
...0000
कल्प.
सुबो
0000000000000000000000000000000000000000000000000000
| परिभोगे सत्यपि कथं अचेलकत्वं इति चेदुच्यते, जीर्णप्रायतुच्छवस्त्रे सत्यपि अवस्त्रत्वं सर्वजनप्रसिद्धमेव, तथाहि
कृतपोतिका नदीमुत्तरन्तो वदन्ति, अस्माभिर्नग्नीभूय नदी उत्तीर्णा इति, तथा सत्यपि वस्त्रे तन्तुवायरजकादींश्च वदन्ति, शीघ्रं अस्माकं वस्त्रं देहि वयं नमाः स्म इति, एवं साधूनां वस्त्रसद्भावेऽपि अचेलकत्वं इति प्रथमः (१)
तथा नदेसिअत्ति । औदेशिकं आधाकर्मिकं इत्यर्थः, साधुनिमित्तं कृतं अशनपानखादिमस्खादिमवस्त्रपावसतिप्रमुखं, तच्च प्रथमचरमजिनतीर्थे एकं साधु, एकं माधुसमुदाय, एकं दपाश्रयं वा आश्रित्य कृतं तत्सर्वेषां साध्वादीनां न कल्पते, हाविंशतिजिनतीर्थे तु यं साध्वादिकं आश्रित्य कृतं तत्तस्यैव अकल्प्य अन्येषां तु कल्पते, इति हितीयः (२)
तथा · सिज्जायरत्ति ' शय्यातरो वसतिस्वामी, तस्य पिण्डः अशन (१) पान (२) खादिम (३) स्वादिम (४) वस्त्र (५) पात्र (६) कम्बल (७) रजोहरण (८) सूची (९) पिप्पलक (१०) नखरदन (११) कर्णशोधनक (१२) लक्षणो द्वादशप्रकारः सर्वेषां जिनानां तीर्थेषु सर्वसाधूनां न कल्पते, अनेषणीयप्रसङ्गवसतिदौर्लभ्यादिबहुदोषसंभवात् । अथ यदि साधवः समयां रात्रि जाग्रति, प्रातः प्रतिक्रमणं च
000000000000000
.00000000
HainEducation.in
For Private sPersonal use Only
wiainelibrary.org