SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ कल्प. | नृपशङ्काशोककरो । बन्धुविरोधार्थहानिकरः ॥ १३ ॥ यःसूर्याचन्द्रमसो-बिम्बं ग्रसते समग्रमपि पुरुषः ।। कलयति दीनोऽपि महीं ससुवर्णा सार्णवां नियतम् ॥१४॥ हरणं प्रहरणभूषण-मणिमौक्तिककनकरूप्पकुप्यानाम् ॥३|| धनमानम्लानिकरं । दारुणमरणावहं बहुशः ॥ १५ ॥ आरूढः शुभ्रमिभं । नदीतटे शालिभोजनं कुरुते ॥ भुते भूमीमखिलां । स जातिहीनोऽपि धर्मधनः ।। १६ ॥ निजभाया हरणे । वसुनाशः परिभवे च संक्लेशः।। गोत्रस्त्रीणां तु नृणां जायते बन्धुवधबन्धौ ॥ १७ ॥ शुभ्रेण दक्षिणस्यां । यः फणिना दश्यते निजभुजायाम् ॥ आप्तादयति सहस्रं । कनकस्य स पञ्चरात्रेण ॥ १८॥ जायेत यस्य हरणं । निजशयनोपानहां पुन: स्वप्ने ॥ तस्य म्रियते दयिता । निबिडा खशरीरपीडा च ॥ १९ ॥ यो मानुषस्य मस्तक-चरणभजानां च भक्षणं कुरुते ॥ राज्यं कनकसहस्रं । तदर्धमाप्नोत्यसौ क्रमशः ॥२०॥ द्वारपरिघस्य शयन-प्रेजोलनपादुकानिकेतानाम् ।। भञ्जनमपि यः पश्यति । तस्यापि कलत्रनाश: स्यात् ॥ २१ ॥ कमलाकररत्नाकर-जलसम्पूर्णापगाः सुहृन्मरणम् ॥ यः पश्यति लभतेऽसा-वनिमित्तं वित्तमतिविपुलम् ॥२२॥ अतितप्तं पानीयं । सगोमयं गडुलमौषधेन युतम् ॥ ॥१९७।। यः पिबति सोऽपि नियतं । म्रियतेऽतीसाररोगेण ॥ २३ ॥ देवस्य प्रतिमाया । यात्रास्नानापहारपूजादीन् । यो 00000000000000000000000000000000000000000000000000 concoconoor Jain Education Intel For Private & Personel Use Only ww.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy