SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ कल्प● ॥१९६॥ Jain Education Inter धर्मकर्मप्रभावजः ८ ॥ पापोद्रेकसमुत्थश्च ९ । स्वप्नः स्यान्नवधा नृणां ॥ २ ॥ प्रकारैरादिमैः षहि-रशुभश्र शुभोऽपि वा ॥ दृष्टो निरर्थकः स्वप्नः । सत्यस्तु त्रिभिरुत्तरैः || ३ || रात्रेश्चतुर्षु यामेषु । दृष्टः स्वप्नः फलप्रदः।। मासैर्द्वादशभि: षट्ति-स्त्रिभिरेकेन च क्रमात् ॥ ४ ॥ निशान्त्यघटिकायुग्मे । दशाहात्फलति ध्रुवम् ॥ दृष्टः सूर्योदये स्वप्नः । सद्यः फलति निश्चितम् ॥ ५ ॥ मालास्वनोऽह्नि दृष्ट । तथाधिव्याधिसम्भवः ॥ मलमूत्रादिपीडोत्थः । स्वप्नः सर्वो निरर्थकः || ६ || धर्मरतः समधातु-र्यः स्थिरचित्तो जितेन्द्रियः सदयः ॥ प्रायस्तस्य प्रार्थित — मर्थं स्वप्नः प्रसाधयति ॥ ॥ न श्राव्यः कुस्वप्नो । गुर्वादेस्तदितरः पुनः श्राव्यः ॥ योग्यश्राव्याऽभावे । गोरपि कर्णे प्रविश्य वदेत् ॥ ८ ॥ इष्टं दवा स्वप्नं । न सुप्यते नाप्यते फलं तस्य || नेया निशापि सुधिया । जिनराजस्तवन संस्तवतः ॥ ९ ॥ स्वप्नमनिष्टं दृष्ट्वा । सुप्यात्पुनरपि निशामवाप्यापि ॥ नैतत्कथ्यं कथमपि । केषांचित् फलति न स यस्मात् ॥ १० ॥ पूर्वमनिष्टं दृष्ट्वा | स्वप्नं यः प्रेक्षते शुभं पश्चात् ॥ स तु फलदस्तस्य भवेद् । द्रष्टव्यं तद्वदिष्टेऽपि ॥ ११ ॥ स्वप्ने मानवमृगपति - तुरङ्गमानङ्गवृषभसिंहीभिः ॥ युक्तं रथमारूढो । यो गच्छति भूपतिः स भवेत् ॥ १२ ॥ अपहारो हयवारण - यानासनसदननिवसनादीनाम् ॥ For Private & Personal Use Only सुबो ॥१९६॥ v.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy