________________
कल्प०
॥१८८॥
Jain Education
सुद्धपवेसाई मंगलाई वत्थाई पवराई परिहिआ अप्पमहग्घाभरणालं कियसरीस-सिद्धत्य हरिआलिआकयमंगलमुडाणा सएहिं ( २ ) गेहेहिंतो निग्गच्छंति, ( २ ) ता खत्तियकुंडग्गामं नयरं मज्झंमज्झेणं जेणेव सिद्धत्थस्स रन्नो भवणवरवसिप नि, मङ्गलानि दधिदूर्वाक्षतानि तान्येव प्रायश्चित्तानि दुःस्वप्नादिविध्वंसकानि कृतानि यैस्ते तथा पुनः किंवि० ( सुद्धप्पवेसाई मंगल्लाइं वत्थाई पवराई परिहिया ) शुद्धानि उज्वलानि, प्रवेश्यानि राजसभाप्रवेशयोग्यानि, उत्सवादिमङ्गलसूचकानि, एवंविधानि प्रवरवस्त्राणि परिहितानि यैस्ते तथा, पुनः किंवि० ( अप्पमहग्घाभरणालंकियसरीरा) अल्पानि स्तोकानि महार्घाणि बहुमूल्यानि एवंविधानि यानि आभरणानि तैः अलङ्कृतं शरीरं येषां ते तथा पुनः किंवि० ( सिद्धत्थयह रियालियाकयमंगलमुद्धाणा ) सिद्धार्थः श्रुतसर्षपाः, हरितालिका दूर्वा, तद् उभयं कृतं मङ्गलनिमित्तं मूर्धनि यैस्ते तथा, एवंविधाः सन्तः (सएहिं सएहिं गेहेहिंतो निग्गच्छति ) स्वकेभ्यः स्वकेभ्यो गेहेभ्यः निर्गच्छन्ति ( निग्गच्छित्ता ) निर्गत्य च ( खत्तियकुंडग्गामं नयरं मज्झं मज्झेणं ) क्षत्रियकुंडस्य ग्रामस्य नगरस्य मध्यंमध्येन ( जेणेव सिद्धस्थस्स रन्नो ) यत्रैव सिद्धार्थस्य राज्ञः ( भवणवरवडिं
ational
For Private & Personal Use Only
सबो
॥१८८॥
www.jainelibrary.org